________________
पाद. ४. सू, २६-२७] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः । ३६५ हल्लाम' ३-२-९४ इत्यत्र निरनुबन्धग्रहणे इति न्यायान्निरनुवन्धस्यैव यस्य प्रहणेन यणि हनादेशाभावात् । बहुलाधिकारादिति 'इसुसोर्बहुलम्' ७-२-१२८ इत्यतोऽनुवृत्तात् ।
मित्रामित्रार्थयोरिति ननु सुहृदुहेच्छन्दयोर्मित्रार्थयोरिति विशेषणं किमर्थ मित्रामित्रार्थयोरेव सुहृद्दुहृद्रूपसमामान्तविधानेनाव्यभिचारात् ! ___ सत्ये, सुहृदयदुहृदयशब्दयोः क्रूगकरार्थयोर्यदा 'तस्येदम्' ६-३-१६० इत्यणि 'हृदयस्य हल्लास' ३-२-९४ इत्यनेन हृदादेशस्त्रदापि सुहृदुईच्छब्दौ स्त इति तद्व्यवच्छेदार्थ मित्रामित्रार्थयोरित्युक्तम् ।
___ तत्र तदन्तविधेरिति न केवल सिन्धु इत्यस्य केबलस्य कच्छादी पाठात् केवलान प्रत्ययः किंतु सिन्ध्वन्तेति पाठात् तदन्तादपीत्यर्थः । प्राचां नगरस्य ।। ७. ४. २६ ॥
प्राचां देशे वर्तमानस्य नगरान्तस्य शब्दस्य णिति तद्धिते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरेष्वादे: स्वरस्य वृद्धिर्भवति । सुह्मनगरे भवः सौह्मनागरः, पौण्डनागरः, वाजु (वांज) नागरः, वैराटनापरः, गैरिनागरः । प्राचामिति किम् ? उदीचां माडनागरः ॥२६॥
न्या० स० प्राचां०-पुण्डामडाश्च पुरुषविशेषाः । अनुशतिकादीनाम् ॥ ७, ४. २७ ॥
अनुज्ञलिक इत्येवमादीमा शब्दानां णिति तद्धिते परे पूर्वपदस्योत्तर'पदस्य च स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । अनुशतिकस्येदमानुशातिकम, अनुशतिकस्यापत्यमानुशातिकिः, अनुहोडेन चरति आनहौडिकः ।
___ अनुशतिक, अनुहोड, अनुसंवत्सर, अनुसंवरण, अनुरहत्, अगारवेण, असिहत्या, अश्वि (स्य) हत्य, अस्थहेति, अस्यहेतु, अनिषाद, अधेनु, कृरुरुत, कुरुपञ्चाल, अधिदेव, अधिभूत, इहलोक, परलोक, सर्वलोक, सर्बपुरुष, सर्वभूमि, बध्योग, प्रयोग, अभिगम, परस्त्री, पुष्करसद्, उदकशुद्ध, सूत्रनड, चतुर्विद्या, शातकुम्भ, सुखशयन इत्यमुशतिकादिः । आकृतिगणोऽयम्, तेन राजपौरुष्यादयष्टयणन्ता अत्रैव पट व ते । राजपौरुष्यम्, पारिमाण्डल्यम, प्रातिभाष्यम्, सार्ववैद्यम् । प्रत्ययान्तरे त्वादेरेव वृद्धिः। राजपुरुषस्यापत्यं राजपुरुषायणिः । ।२७।
न्या० स० अनु० -पारिमाण्डल्यमिति परिमण्डलमणूनां परिमाणं तद्योगात् परमाणवोऽपि परिमण्डलास्तेषां भावः।
प्रातिभाव्यमिति प्रतिभुवो भावः दयणि उभयपदवृद्धौ ‘व्यक्ये १-२-२५ इत्यावादेशः, "अस्वयंभुवोऽव् ' ६-४-७. इति कृते पश्चादुभयपदवृद्धि ।