________________
३६४ ]
बृहद्वृत्ति-लधुन्याससंवलिते [पाद. ४ सू. २४-२५ 1 अकारान्तः ।२३॥ ___ न्या. स. मत्रः-अक्षेत्रमिति ‘नजतत्पुरुषादबुधादेः' ७-१-५७ इत्यनेन दयण न बाध्यते, क्षेत्रज्ञेश्वरयोर्बुधादिपाठात् ।
न विद्यते शुचिरस्येति वेति पूर्वप्रयोगापेक्षया वा न तु वाक्यापेक्षया न तत्पुरुषे हि 'नबतत्पुरुषात्' ६-३-७१ इति त्वतलावेव स्यातामतो बहुव्रीहिरेव कार्यः ।
अव्ययीभावो वेति तथेत्यस्य योग्यत्वं पुरेत्यस्य योग्यत्वं तथेत्यस्य पुरेत्यस्य चानतिक्रम इति वा यथातथं, यथापुरम् । अकारान्त इति अव्ययीभावस्य नपुंसकत्वे 'क्लीवे' २-४-९७ इत्यनेन हस्वः । जङ्गलधेनुवलजस्योत्तरपदस्य तु वा ॥ ७. ४. २४ ॥
आदेरित्यनुवर्तते । वेति तु निवृत्तम् । उत्तरपदस्य चेत्यकरणात् । जङ्गल, धेनु, वलज इत्येतदुत्तरपदानां शब्दानामादेः पूर्वपदस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य नित्यं वृद्धिर्भवति । उत्तरपदस्य पुनर्वा भवति । कुरुजङ्गलेषु भवः कोरुजङ्गलः, कौरुजाङ्गलः, वैश्वधेनवः वैश्वधैनवः, सौवर्णवलजः सौवर्णवालजः ।२४।
न्या० स० जङ्गल०-वैश्व(नव इत्यत्र 'उत्सादेर' ६-१-१९ शेषेषु भवे' ६-३-१२३ हृदभगसिन्धोः ॥ ७. ४. २५ ॥
आदेहत्तरपदस्येति च द्वयमनुवर्तते, हृद्भगसिन्धु इत्येवमन्तानां शब्दानां णिति तद्धिते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिर्भवति ।
सुहृदः सुहृदयस्य वा इदं भावः कर्म वा तस्येदम् ' (६-३-१५९) इत्यणि युवाद्यणि वा सौहार्दम्, एवं दौहार्दम् । सुहृदो भावः कर्म वा राजादित्वात् टयणि सौहाद्यम्, दोहार्धम् । बहुलाधिकारात्, मित्रामित्रार्थयोः सुहृदुहृच्छब्दयोः सौहृदम् दौ« दमित्यपि भवति । सुभगस्य भावः सौभाग्यम्, दौर्भाग्यम्, सुभगाया अपत्यं सौभागिनेयः, दो गिणेयः, एकपदत्वाण्णत्वम् । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, तेषु भवः साक्तुसैन्धवः, पानसैन्धवः, लावणसैन्धवः, माहासैन्धवः, सौरसैन्धवः । कच्छादित्वादण । तत्र तदन्तविधेरपीष्टत्वात् ।२५॥
न्या० स० हृद् भग० --सुहृदस्य वेति मित्रार्थत्वाभावान्न 'सहृदुहन्' ७-३-१५७ इत्यनेन सुहृदादेशः, तथा चाणि सति 'हृदयस्य' ३-२-९४ इति हृदादेशः । सौहार्यमिति अयं सुहृदशब्दस्यैव प्रयोगः सुहृदयशब्दस्य तु ट्यणि सौहदय्यमित्येव भवति, हृदयस्या