________________
[पाद ४. सू. २१-२३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३६३
प्रादाहणस्यैये ॥ ७. ४. २१ ॥ ____ वा त्वादेरिति वर्तते, प्रशब्दात्परस्य वाहणशब्दस्य एये णिति तद्धिते परे स्वरेष्वादेः स्वरस्व वृद्धिर्भवति आदे: पूर्वस्य तु प्रशब्दस्य वा भवति । प्रवाहयतीति प्रवाहणः प्रवाहणस्यापत्यं प्रवाहणेयः, प्रावाहणेयः, शुभ्रादिस्वादेयण् । अत्राप्युत्तरपदवृद्धः पूर्वोक्तमेव प्रयाजनम्, तेन प्रवाहणेयी भार्या यस्य प्रवाहणेयोभार्य इति पुवद्भावप्रतिषेधो भवति ॥२१॥ एयस्य ॥ ७. ४. २२ ॥
एयप्रत्ययान्तावयवात्प्रशब्दात्परस्य वाहणशब्दस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति आदेस्तु प्रशब्दस्य वा भवति। प्रवाहेणयस्यापत्यं युवा प्रवाहणेयिः प्रावाहणेयिः। प्रवाहणेयस्येदं संघादि तस्य भावो वा प्रवाहणेयकम् । प्रावाहणेयकम् । बाह्यतद्धितनिमित्ता वृदिरेवाश्रयेण विकल्पनाशक्या बाधितुमिति सूत्रारम्भः ॥२२॥
न्या० स० एय-प्रवाहणेयिरिति अत्र ब्राह्मणत्वात् 'अब्राह्मणात् । ६-१-१४१ इत्यनेन इबो न लुप् ।
- बाह्यतद्धितेति-बाह्यस्तद्धित एयव्यतिरिक्तस्तन्निमित्ता वृद्धिः 'वृद्धिः स्वर' ६-४-१ इत्यनेन नित्यं प्राप्ता एयाश्रयेण विकल्पेन 'प्राद्वाहणस्य' ६-४-२१ इति विहितेनेति योजना। नत्रः क्षेत्रज्ञेश्वरकुशलचपलनिपुणशुचेः ॥ ७. ४. २३ ॥
नत्रः परेषां क्षेत्रज्ञ, ईश्वर, कुशल, चपल, निपुण, शुचि इत्येतेषां प्रकृत्यवयवानां णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति आदेस्तु नत्रो वा। अक्षेत्रज्ञस्येदं अक्षैत्रज्ञम्, आक्षेत्रज्ञम् । अक्षेत्रज्ञस्य भावः कर्म वा अक्षेत्रश्यम् आक्षेत्रश्यम्, राजादित्वात् टघण् । एवमनैश्वरम्, बानेश्वरम्, अनैश्वर्यम्, आनैश्वर्यम् । अकुशलस्येदम् बकौशलम् आकौशलम्, एवमचापलम्, आचापलम्, अनैपुणम् । नैपुणम् । न शुचिरशुचिस्तस्येदम् अशौचम्, आशौचम्, न विद्यते शुचिरस्येति वा अशुचिस्तस्य भावः कर्म वा अशौचम्, आशौचम् । क्षेत्रज्ञकुशलचपलनिपुणानां नपूर्वाणामपि युवादिपाठादणमिच्छन्त्येके । आयथातथ्यमिति समासात्प्रत्ययः । अयाथातथ्यमिति प्रत्ययान्तेन समासः । एवम् आयथापुर्यम् अयाथापुर्यम् यथा आचतुर्यम् अचातुर्यम् इति । यथातथा यथापुरा इत्यखण्डमव्ययं वा 'नाम नाम्ना'-(३-१-१८) इति वा समासो 'यथाऽथा' (३-१-४१) इति अव्ययीभावो वा