________________
३६२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पा० ४. सू० २०]
लोहितिकम्, पाञ्चकलायिकम । तद्धितान्तमिदं परिमाणविशेषस्य नाम । १९ ।
न्या० स० मान० – द्विमौवर्गिक मित्यादि अत्र तु 'सुवर्ण कार्षापणात् इत्येनेने कणो वा लुप् भवति ।
६-४-१४३
द्विषष्ट्यादिशब्दा इति द्वे षष्टी सप्तती वा दिवसानां मासानामर्धमासानां वेति विवक्षया कालवृत्तित्वम् ।
कलाधिकार विहितमिति 'कालात् परिजय्य' ६-४-१०४ इत्यस्मिन् कालाधिकारे विहितं ' निर्वृत्ते ' ६-४-२० इत्यादिभिः प्रत्ययमिकणुरूपम् ।
कालो मानग्रहणेनेति मीगते अनेनेति व्युत्पत्या मानग्रहणेन कालस्यापि ग्रहणप्रसङ्गे सतीत्यर्थ. द्वैरात्रिक इत्यादि अत्र 'संख्यातै' ६-३-११९ इत्यत्, तत इण् । द्वैशाणमिति 'द्वित्र्यादेर्याण् च ' ६-४-१४७ इत्यण् तस्य च विधानस मर्थ्यात् 'अनाम्न्यद्विः प्लुर्' ६-४१४१ इति लुबभावः ।
द्वैकुलिजिक इति अत्र 'संभव' ६-४-१६२ इति इकण्, 'कुलिजाद् वा' ६-४-१६५ इति वा लुप् ।
पाञ्चलोहितिक्रमिति अत्र मानम् ६-४-१६९ इतीकण् 'जातिश्च णि ३-२-११ इति पुंवद्भावः ।
पाचकला विकमिति कलायो धान्यविशेषो मालविकप्रसिद्धः, तत्कणानां पञ्चानां यावत परिमाणं भवति, तावन्मात्रस्य परिमाणवि शेषस्येदं नाम, अत्र एव 'अनाम्न्यद्विः प्लुप्' ६-४-१४१ इति लुवपि न भवति ।
अर्थात्परिमाणस्यानतो वा त्वादेः ॥ ७. ४. २० ॥
6
ין
अर्धशब्दस्य परिमाणवाचिनः कुडवादेः शब्दरूपस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्थानसोऽकाररहितस्य वृद्धिर्भवति वा स्वादेः परिमाणात्पूर्वस्य स्त्रर्धशब्दस्य वा भवति । अर्धकुडवेन क्रीतम् अर्धकौडविक्रम्, आर्थकौडविकम्, अर्धमौष्टिकम्, आर्धमोष्टिकम्, अर्धद्रौणिकम् आर्धद्रौणिकम् । परिमाणस्येति किम् ? अर्धक्रोशः प्रयोजनमत्य आर्धा [क्री] शिकम् । अनत इति किम् ? अर्धप्रस्थिकम् आर्धप्रस्थिकम्, अर्धकंसिकम्, आर्धकसिकम्, अर्धवमसि - कम् । आर्धचमसिकम् आदिविकल्प उत्तरवृद्ध्यनपेक्ष इति भवत्येव । अतः प्रतिषेधादाकारस्य वृद्धिर्भवत्येव । अर्धखाय भवः अर्धखारीकः । पुनरत्र विशेषः सत्यामसत्यां वा वृद्धी । उच्यते, अर्धखारी भार्यास्य अर्धखारीभार्यं इति । rees वृद्धिप्रतिषेधः स्यात् अयं तद्धितो न वृद्धिहेतुरिति पुंवद्भावप्रतिषेधो न स्वात् यथार्धप्रस्थे भवार्धप्रस्थी सा भार्यास्य अर्धप्रस्थ भार्य इति | २० |
न्या० स० अर्द्ध० - अर्द्धकंसिकमितिअर्द्धकंसशब्दशत् क्रीतेऽर्थे इकणू न भवति, ' अर्द्धात्पलकंकर्षात् ६-४-१३४ इतीकटा बाधितत्वात्ततः प्रयोजनेऽर्थे इकणू दृश्यः । अर्द्धप्रस्थभार्य इति अत्रान्त इति भणनान्नोत्तरपदवृद्धिः, पूर्वपदस्यापि वा त्वादेः' इति वचनान्न भवति, ततस्तद्धितस्य स्वरवृद्धिहेतुत्वाभावान्न पुंवन्निषेधः ।