SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ [पाद. ४. सू. १९] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३६१ विहितो भवति । द्वाभ्यां वर्षाभ्यां नित्तः द्वाभ्यां वर्षाभ्यां भूतोऽधीष्टो वा द्वे वर्षे भूतो वा द्विवार्षिकः, त्रिवार्षिकः, अधिकवार्षिक: । अभाविनीति किम् ? द्वे वर्षे भावि द्वैवर्षिकं त्रैवर्षिकम् धान्यम्, द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा कर्म करिष्यति द्विवार्षिको मनुष्य इति, अधीष्टभृतयोः प्रत्ययो नभाविनीति प्रतिषेधो न भवति । गम्यते ह्यत्र भविष्यत्ता न तु प्रत्ययार्थः ॥१८॥ न्या० स० संख्या०–ननु द्विवार्षिक इत्यादी 'निर्वृत्ते' ६-४-२० इत्यादिभिरिकण न प्राप्नोति, तत्र 'कालात् परिजय्य' ६-४-१०४ इत्यतः कालादिति अधिकारात्, अत्र तु वर्षशब्द एव कालवाची, न तु द्विवर्षे त्यादिरिति १ । सत्यं, 'संख्यादेश्चाईदलुचः' ६-४-८० इत्यनेन संख्यादेरपि कालवाचिनो भवतीति, तर्हि अधिक वार्षिक इत्यत्र कथं न ह्यधिकशब्दः संख्यावाचीति ? सत्यं, अभाविनीतिव्यावृत्तिसामर्थ्यात् , अभाविनीति व्यावृत्तवर्षिक इत्यादिषु चरितार्थत्वमिति चेत् , तर्हि अभाविनीव्यावृत्तेर्व्यक्त्या प्रवृत्तरिकण भविष्यतीति । मानसंवत्सरस्याशाणकुलिजस्यानानि ॥ ७. ४. १९ ॥ __ मीयते परिच्छिद्यते येन तन्मानम् परिमाणादि । संख्याया अधिकशब्दाच्च परस्य शाणकुलिजशब्दवजितस्य मानवाचिनः संवत्सरशब्दस्य च णिति तद्धिते परे स्वरेष्वादे: स्वरस्य वृद्धिर्भवति अनाम्नि असंज्ञायां विषये। संख्याविकाभ्यां मानसंवत्सरस्य वचनभेदान्न यथासंख्यम् । द्वौ कुडवी प्रयोजनमस्य द्विकौडविकः, त्रिकोडविकः । अधिककोडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौणिकं त्रिसौणिकम् । अधिकसौणिकम, द्वाभ्यां षष्टिभ्यां निर्वतो द्वाभ्यां षष्टिभ्यां भूतोऽधीष्टो वा द्वे षष्टी भूतो भावी वा द्विषाष्टिकः, त्रिषाष्टिकः, अधिकषाष्टिकः, द्विसाप्ततिकः, अधिकसाप्ततिकः, द्विषष्टयादिशब्दाः संख्येये काले वर्तन्त इति कालाधिकारविहितं प्रत्ययमुत्पादयन्ति । द्वाभ्यां नवतिभ्यां क्रीतमिति 'मूल्यैः क्रीते' (६-४-१५०) इतीकण । तस्य अनाम्यद्विः पलप् (६-४-१४१) इति लुपि द्विनवति द्रव्यम् तेन दो च नवतिश्च द्विनवतिस्तया वा क्रीतं द्विनावतिकम्, एवं विनावतिकम, संवत्सर, संवत्सर, द्वाभ्यां संवत्सराभ्यां निर्वत्तो द्वाभ्यां संवत्सराभ्यां भूतोऽधीष्टो वा द्वौ संवत्सरौ भूतो भावी वा विसांवत्सरिकः, त्रिसांवत्सरिकः, संवत्सरग्रहणात् कालो मानग्रहणेन न गाते तेन द्वसमिकः, समिकः, द्वैरात्रिकः, त्रैरात्रिकः । अशाणकुलिजस्येति किम् ? द्वाभ्यां शाणाभ्यां क्रीतं द्वैशाणं, त्रैशाणम्, द्वे कुलिजे पचति संभवत्यवहरति च द्वैकुलिजिकः । त्रैकुलिजिकः । अनाम्नीति किम् ? पञ्च लोहिन्यः परिमाणमस्य पाञ्च
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy