________________
,
( पाद. ३. सू. ३०-३१ ] श्रीसिद्धहेमचन्द्र शब्दानुशासने सप्तमोध्यायः [ ३६७ सति ईत्वं 'देवतानामात्यादौ ७-४-२८ इत्युभयपदवृद्धिश्च प्राप्नोति द्वयोः प्राप्तौ परत्वादुभयपदवृद्धिः क्रियते, तस्यां च सत्यां विशेष विहितत्वात् 'इर्वृद्धिमत्यविष्३-२-४३ इति इकार एव ।
एकादशकपालमिति एकादशसु कपालेषु संस्कृतं 'संस्कृते भक्ष्ये' ६-२-१४० इत्यण् 'द्विगो: ' ७-१-१४४ इति लुन् ।
पूर्वेषुकामसम इत्यादीति अत्र भत्रेऽण् 'प्रावामाणाम् ' ७-४-१७ इत्युत्तरपदवृद्धि:, अत्र यदि पूर्व संधिः स्यात्तदा इकारस्य पूर्वान् संबन्धिन उकारस्य वृद्धिः स्यात् । सारवैक्ष्याक मैत्रेयभ्रोणहत्यधैवत्यहिरण्मयम् ।। ७. ४. ३० ॥
सारवादयः शब्दा अनादिप्रत्ययान्ताः कृतायलोपादयो निपात्यन्ते । सरय्वां भवं सारवमुदकम्, सरयू शब्दस्याणि प्रत्ययेऽयित्यस्य लोपः । इक्ष्वाको रपत्यमैerre: | 'राष्ट्र क्षत्रियात् ' - ( ६-१ - ११४ ) इत्यादिनान् । इक्ष्वाकोरिदमैत्राकम्, इक्ष्वाकुशब्दस्य अनि अणि चोकारलोपः । मित्रयोरपत्यं मैत्रेयः, मित्रयुशब्दस्य गृष्टच्चादित्वादेवनि युलोपः । अथ मित्रशब्दो विदादिषु किं न पठद्यते । तथा च ' केकयमित्रप्रलय ' ( ७ - ४ - २ ) इत्याविनेयादेशेनैव सिध्यतीति नेदं निपातनमारब्धव्यं भवति । यस्काविषु च मित्रयुशन्दो बहुषु बन पठितव्यो भवति यजञ: ' ( ६-१-१२६ ) इत्यादिनैव सिद्धत्वात् । उच्यते, अनि सति मित्रयूणां संघो मैत्रेयकमित्यत्राकवं बावित्वा स्यादिति विदादिषु न षठ्यते । भ्रूणनो भावः कर्म वा श्रोणहत्यम्, घोन्नो भावः कर्म वा धैवत्यम् । अत्र यणि नकारस्थ तकारः । हिरण्यस्य विकारो हिरण्मयम्, अत्र मयटि यशदलोपः |३०|
वान्तमान्तितमान्तितोऽन्तियान्तिषद् ॥ ७ ४ ३१ ॥
वा
अन्तमादयः शब्दास्तमवादिप्रत्ययान्ताः कृततिकादिलोपादयो निपात्यन्ते । अयमेषामतिशयेनान्तिकः अन्तमः पक्षे अन्तिकतमः, अत्रान्तिकशब्दस्य तमप्प्रत्यये तिकशब्दलोपो 'नोऽप्रशानोऽनुस्वारानुनासिको च पूर्वस्यापरे' इति सकाराभावश्च निपात्यते । अबमेषामतिशयेनान्तिकः अन्तितमः । अत्र कशब्दस्य लोपः, पक्षे अन्तिकतमः । अन्तिकादागच्छति अन्तित आगच्छति, अत्रापादानलक्षणे तसौ कशब्दस्य लोपः । पक्षेऽन्तिकत आगच्छति, अन्तिके साधुः अन्तियः, अत्र मप्रत्यये कशब्दस्य लोपः इकारस्य च लोपाभावः । पक्षे अतिक्ष: । अन्तिके सीदति अन्तिषद्, अत्र सदिति त्रिन्ते कलोपः सस्य षत्वं च । पक्षे अन्तिकसत् |३१|