________________
३५८ ]
बृहवृत्ति-लघुन्याससंवलिते [ पाद. ४ सू. ९-१२ ] न्या स० न्यको-न्यञ्चतीति 'नेरुचेरुः ७२४ ( उणादि)'न्यङ्कूद्ग' ४-१-११२ इति कः, व्युत्पत्तिपक्षे पूर्वेण प्राप्ते विभाषा, अव्युत्पत्तिपक्षे त्वप्राप्ते । न अस्वङ्गादेः ॥ ७. ४. ९ ॥
अप्रत्ययान्तस्य स्वङ्गादेश्च णिति तद्धिते परे य्वः प्रागैकार कारौ न भवतः । ब, व्यावक्रोशी, व्यावलेखी, व्यावचर्ची, व्यावहासी, व्यात्युक्षी। 'व्यतिहारेऽनीहादिभ्यो नः'-(५-३-११६) इति नः। ततो नित्यं अजिनोऽण् '-(७-३-५८) इत्यण् । स्वङ्गादि, स्वङ्गस्यापत्यं स्वाङ्गिः, व्याङ्गिः, व्याडिः, स्वागतमित्याह स्वागतिकः, स्वध्वरेण चरति स्वाध्वरिकः, व्यवहारेण चरति व्यावहारिकः,। व्यायामः प्रयोजनमस्याः व्यायामिकी विद्या ॥
__ स्वङ्ग, व्यङ्ग, व्यड, स्वागत, स्वध्वर, व्यवहार, व्यायाम इति स्वङ्गादिः ।९। श्वादेरिति ॥ ७. ४. १० ॥
श्वन्शब्द आदिरवयवो यस्य तस्य श्वादेनम्नि इति इकारादौ णिति तद्धिते प्रत्यये परे वः प्रागौकारो न भवति । श्व भवस्यापत्यं श्वाभस्त्रिः, श्वाशीषिः, श्व दंष्ट्रिः, श्वगणेन चरति श्वागणिकः, श्वायूथिकः आदिग्रहणं किम् ? ३वभिश्चरति शौविकः। इतीति किम् ? श्वहानस्येदं शौवहानम्, शौवभत्रम्, श्वादंष्ट्रायाः विकारः शौवादंष्ट्रो मणिः ।१०।
इञः ॥ ७. ४. ११ ॥ ___ वादेरि प्रत्ययान्तस्य णिति तद्धिते परे वकारात्प्रागौकारो न भवति । श्वाभस्त्रेरिदं श्वाभस्त्रम्, श्वाकर्णेः श्वाकर्णम् । इकारादौ निमित्त उच्यमानः पूर्वेण प्रतिषेध इअन्तस्य प्रत्ययान्तरे न प्राप्नोतीति वचनम् ।११।
न्या० स० इञ:०-इवाकर्णेरिति वाक्ये पूर्वेण औनिषेधः । पदस्यानिति वा ॥ ७. ४. १२ ॥
पदशब्दान्तस्य श्वादेः शब्दस्य इकारादिजिते णिति तद्धिते परे वकारात्प्रागौकारो वा भवति । शुन इव पदमस्य श्वापदम्, तस्य विकारः श्वापदं, शौवापदम् । अनितीति किम् ? श्वापदेन चरति श्वापदिकः । श्वन शब्दस्य द्वारादिषु पाठात् तत्र तदादिविधेापितत्वान्नित्यमौकारागमे प्राप्ते विकल्पः ।१२।
न्या० स० पद - श्वापदशब्दो बाहुलकात पुनपुंमकः ।