SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ [ पाद. ४. सू १३-१५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३५९ प्रोष्ठभद्राज्जाते ॥ ७. ४, १३ ॥ वृद्धिरित्यनुवर्तते, प्रोष्ठशब्दाद् भद्रशब्दाच्च परस्य पदशब्दस्योत्तरपदस्य स्वरेष्वादे: स्वरस्य स्थाने जातेऽर्थे विहिते णिति तद्धिते परे वृद्धिर्भवति । प्रोष्ठपदासु जातः प्रोष्ठपादः, भद्रपादो माणवकः । जात इति किम् ? प्रोष्ठपदासु भवः प्रौष्ठपदो मेघः, ऊर्ध्वमौहतिक इति — सप्तमी चोर्ध्वमौहूति के ' (५-४-३०) इति निपातनात्, गुरुलाघवमिति गुरोलाघवं गुरुश्च गुरुत्वं लाघवं चेति वा, संहतपारायमिति संहते पारार्थ्यमिति सिद्धमतो नार्थ उत्तरपदवृद्धि विधानेन ।१३।। न्या० स० प्रोष्ठ०-प्रकृतिहरीतक्यादिरिति वचनात् कालेऽपि प्रोष्ठपदादयः स्त्रीलिङ्गाः । अंशादतोः ।। ७. ४. १४ ॥ · अंशवाचिनः शब्दात्परस्य ऋतुबाचिन उत्तरपदस्य स्वरेष्वादेः स्वरस्य स्थाने णिति तद्धिते परे वृद्धिर्भवति । पूर्वासु वर्षासु भवः पूर्ववार्षिकः, अपरवार्षिकः । 'वर्षाकालेभ्यः' (६-३-७९) इतीकण् । पूर्वशारदः, अपरशारदः पूर्वनैदाघः, अपरनैदाघः, पूर्वमनः, अपरहैमनः । ऋत्वण । अंशादिति किम् ? पूर्वासु ऋत्वन्तरैर्व्यवहितासु वर्षासु भवः पौर्ववर्षिकः, सुवर्षासु भवः सौर्षिकः । ऋतोरिति किम् ? पूर्वपिप्पल्या इदं पौर्वपिप्पलम्, आर्धपिप्पलम् ।१४। न्या० स० अंशा०-पूर्वासु वर्षास्विति अर्थकथनमिदं यावता 'पूर्वापरप्रथम' ३-१-१०३ इत्यनेन कर्मधारये पूर्ववर्षासु भवः पूर्व भागान्तरं वर्षाणां वा इति कार्य, अन्यथांशवाचकत्वेन पूर्वस्यादिग्वाचित्वाभावात्, 'दिगधिकम् ' २-१-९८ इति न स्यात्, एवं पूर्वशारद इत्यादावपि यथा पूर्व भाग.न्तर शरदः पूर्व भागान्तरं निदाघस्य तत्र भवः ।। ऋत्वन्तरैव्यवहितास्विति अत्र हि पूर्वशब्दो न वर्षाणामेकदेशं ब्रूते किंतु व्यवहितत्वमिति न पूर्वशब्दोंऽशवचनः। सुसर्वार्धाद्राष्ट्रस्य ॥ ७. ४. १५॥ सू, सर्व, अर्ध इत्येतेभ्यः परस्य राष्ट्रवाचिन उत्तरपदस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । सुपञ्चालेषु भवः सुपाञ्चालकः, सर्वपाञ्चालकः, अर्घपाञ्चालकः, सुमागधकः, सर्वमागधकः अर्धमागधकः । 'बहुविषयेभ्यः' (६-३-४४) इत्यकञ् । राष्ट्रस्येति किम् ? सुगन्धाः पण्यमस्य सौगन्धिकः, अर्धपिप्पल्यां भव आर्धपिप्पलः ।१५। ___ न्या० स० सुस-सुपाञ्चालक इति उत्सादौ पञ्चालशब्दो ब्राह्मणवाच्येव गृह्यत इति केचित् , तन्मतेन नात्रा कित्वकमेव ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy