________________
३५६] बृहदृत्ति-लघुन्याससंवलिते
[पा. ४. सू० ६ ] भवतीति ज्ञापितं तस्यानाश्रयणेन ज्ञापकज्ञापितत्वात् तस्य ज्ञापकस्य समाश्रयणे वा पूर्व यत्ववत्वाभावे ऐदौतः प्राप्तेरभावात् पूर्वमिवर्गोवर्णयोवृद्धौ तत आयावादेशे च य्यः प्रागैदौति आत ऐत्वौत्वे तान्येव रूपाण्यतः पूर्व वृद्धिरेव, न यत्ववत्वे इत्याग्रहो न कार्य इति ।
याता इति नन्वत्र वृद्धिप्राप्त्यभावात् द्वयङ्ग विकलता प्राप्नोति ? सत्यं, यत इमे इनि वाक्यकाले यद्यपि कृतयत्वस्येणो रूपं तथापि इ अत् डस् अणू इत्येव द्रष्टव्यं यतः अन्तर
गानपि विधीन् बहिरङ्गापि लुप् बाधते इति न्यायेनान्तरङ्गस्यापि 'बिगोरविति' ४-३-१५ विधीयमानस्य यत्वस्य 'ऐकाय'३-२-८ इति विधीयमानया ङ्स्प्रत्ययस्य लुपा बाधितत्वात. ततो ङसो लुपि णित्प्रत्ययमाश्रित्य वृद्धिप्राप्तिः, ततोऽन्तरङ्गाद्वृद्धिं बाधित्वा यत्वमजनिष्ट, एतच्च वैयाकरण इत्यादिष्वपि ज्ञेयं, तथाहि वि आकरण अम् अण् इति स्थितौ अन्तरङ्गमपि यत्वं बाधित्वा तेनैव न्यायेन प्रथमममो लुप् ततो वृद्धिप्राप्तावन्तरङ्गत्वात् यत्वमिति । ___द्वयाशीतिक इत्यादि एषु 'निर्वृत्ते' ६-४-२० इत्यादिभिरिकणू , अत्राशीतिशब्दो दिवसार्द्रमासमासादेः कालस्य संख्यां ब्रते इति काले वर्तमानत्वादशीति-शब्दात 'कालातपरिजव्या ६-४-१०४ इति कालाधिकारविहितस्तेन 'हस्ताद्यः' इति तृतीयान्ताधिकारे 'निवृत्ते ६-४-२० इत्यादिसूत्रैर्निर्वृत्ताद्यर्थ इकण् ।
प्राप्तिश्चाकृते इति वैयाकरण इत्यादिषु य्वोः स्थानिनोरिवर्णोवर्णयोवृद्धप्रसङ्ग इत्यर्थः । दारादेः ॥ ७. ४. ६ ॥
द्वार इत्येवमादीनां यौ यकारवकारी तयोः समीपस्य स्वरेष्वादेः स्वरस्य तत्प्राप्तौ वृद्धिप्रसङ्गे ताभ्यामेव प्राक् ऐत् औत् इत्येतावागमौ भवतः णिति तद्धिते परे। द्वारे नियुक्तः दौवारिकः, स्वरमधिकृत्य कृतो ग्रन्थः सौवरः, स्वर्भवः सौबः, 'प्रायोऽव्ययस्य'-(७-४-६५) इत्यन्त्यस्वरादिलोपः । स्वस्तीत्याह सौवस्तिकः, अव्युत्पन्नोऽयम् । सुपूर्वस्य तु पूर्वेणैव सिद्धम् । स्वादुमदोऽपत्यं सौवादुमृदः, व्यल्कसे भवो वैयल्कस:, विपूर्वस्य तु पूर्वेणैव सिद्धम् । श्वो भवः शीवस्तिकः, 'श्वसस्तादिः'-(६-३-८३) इति तिकण् । शुन इदं शौवनं मांसम् । स्फ्यकृतस्यापत्यं स्फेयकृतः । ऋष्यण् । स्वस्येदं सौवम, स्वाध्यायेन जयति सौवाध्यायिकः । तेन जित'-(६-४-२) इत्यादिनेकण् । स्वग्रामे भवः सौवग्रामिकः, अध्यात्मादित्वादिकण्। 'श्वादेरिति' (७-४-१०) इति प्रतिषेधात् द्वारादिपूर्वाणामपि भवति । द्वारपालस्यापत्यं दौवारपालिः, 'अन्न इञ्'-(६-१-३१) । द्वार पाल्या अपत्यं दौवारपालिकः, रेवत्यादित्वादिकण, स्वराध्याये भवः सौवराध्यायः, स्वर्गमनमाह सौवर्गमनिकः । प्रभूतादित्वादिकण-श्वादंष्ट्रायां भवः शौवादंष्द्रो मणिः, शौवभस्त्रः । वोः समीपस्य वृद्धिप्राप्ताविति विज्ञानात् वैयल्कस इत्यत्र वकारात्प्रागौकारो न भवति । स्बपाठेनैव सिद्धे स्वाध्यायस्वग्रामपाठात् स्वापतेयं स्वाजन्यमित्यादौ न भवति ।