________________
॥ चतुर्थः पादः ॥
वृद्धिः स्वरेष्वादेर्भिणति तद्धिते ॥ ७ ४ १ ॥
ञिति णिति च तद्धिते प्रत्यये परे पूर्वो यः प्रकृतिभागस्तस्य स्वरेषु स्वराणां मध्ये य आदिः स्वरस्तस्य वृद्धिरादेशो भवति । ञिति, दाक्षिः । प्लाक्षिः, काणिः नैवाकविः, चौलिः, णिति, - कापटवः, भार्गवः, शैवः, औपगवः । श्रीर्देवता अस्य श्रायः स्थालीपाकः, एवं ह्रायः । स्वरेष्विति व्यञ्जनापेक्षाव्युदासार्थम् तेन व्यञ्जनादेरपि भवति । णितीति किम् शङ्कव्यं दारु । तद्धित इति किम् ? चिकीर्षकः । १ ।
केकयमित्रयुप्रलयस्य यादेरिय्च ॥ ७. ४. २ ॥
केकयमित्रयुप्रलय इत्येतेषां णिति तद्धिते परे स्वेरष्वादेः स्वरस्य वृद्धिर्यादेश्च शब्दरूपस्य इयादेशो भवति । केकयस्यापत्यं कैकेयः । राष्ट्क्षत्रियात्'–(६-१-११४) इत्यादिनाञ् । मित्रयोर्भावः मैत्रेयिकया श्लाघते । गोत्रचरण '– (७-१-७५ ) इत्यादिनाकञ् । प्रलयादागतं प्रालेयं हिमम् । तत आगते' (६-३- १४८ ) इत्यण् । णितीत्येव । केकयश्वम् |२| अहं । न्या० स० देवि ० - केवलानामेवेति ग्रहणवतेति न्यायात् ।
"
देविकाशिंशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः ॥ ७ ४. ३ ।।
देविका शिशपादीर्घसत्रश्रेयस् इत्येतेषां स्वरेष्वादेः स्वरस्य ञ्णिति तद्धिते निमित्ते तत्प्राप्तौ वृद्धिप्रसङ्गे आकार आदेशो भवति । देविकायां भवं दाविकमुदकम्, देविकाकूले भवा दाविकाकूलाः शालयः पूर्वदेविका नाम प्राच्यग्रामस्तत्र भवः पूर्वदाविकः । अत्र ' प्राग्ग्रामाणाम् ' ( ७-४-१७ ) इत्युत्तरपदवृद्धिप्राप्तिः । शिशपाया विकारः शांशप: स्तम्भः, शिशपास्थले भवाः शांशपास्थलाः शालयः, पूर्वशिशपा नाम प्राच्यग्रामस्तत्र भवः पूर्वशांशतः, दीर्घसत्रे भवं दार्घसत्रम्, श्रेयोऽधिकृत्य कृतं श्रायसं द्वादशाङ्गम् । तत्प्राप्ताविति किमर्थम् ? सुदेविकायां भवः सौदेविक इत्यत्र निषेधार्थम् पूर्वोत्तरपदानामपि यथा स्यादित्येवमर्थं च, अन्यथा हि केवलानामेव स्यात् |३|