________________
पाद. ३. सू. १०५-१०७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३३५ टकारो यर्थः । अर्धनावम् अर्धनावीति हि स्त्रीनपुसकयोदश्यते ॥१०॥
न्या स० नाव:-अर्धनावमित्यादि अर्धपूर्वपदो नाव इति स्त्रीक्लोक्त्वे भवतः । गोस्तत्पुरुषात् ॥ ७. ३. १०५ ॥
गोशब्दान्तात्तत्पुरुषादल कोऽट् समासान्तो भवति । राज्ञो गौ राजगवः, राजगवी, पुंगवः, स्त्रीगवी, अतिगवः, अतिगवी, पञ्चगवम्, दशगवम्, पञ्चगवमयम्, पञ्चगवरूप्यम्, पञ्चगवधनः, दशगवधनः, दशगवप्रियः। तत्पुरुषादिति किम् ? चित्रगुः । अलक इत्येव । पञ्चभिर्गोभिः कोतः पञ्चगुः ।।१०॥
राजन्सखेः ॥ ७. ३. १०६ ॥ __ अलुक इति निवृत्तम् पृथग्योगात् । राजन् सखि इत्येतदन्तात्तत्पुरुषाद समासान्तो भवति । देवानां सजा देवराजः, महांश्चासौ राजा च महाराजः, अतिक्रान्तो राजानमतिराजः, अतिसजो। पश्चानां राज्ञां समाहारः पञ्चराजी, दशराजी । पञ्चभी राजभिः क्रीतः पश्चराजः, पञ्चराजी, पञ्चराजप्रियः । सखि,-राजसखः, महासखः, अतिसखः, अतिसखी, पञ्चमखम्, दशसखम्, पञ्चसखः, पञ्चसखो, पञ्चसखप्रियः, राजन्निति नान्तनिर्देशादनकारान्तान्न भवति । मद्राणां राज्ञी मद्रराज्ञी, विद्याराज्ञी, महासज्ञी । सखीशब्दात्त्वटि सत्यसति बा न रूपभेदः ॥१०६।।
न्या. स. राजन्०-नान्तनिर्देशादिति नामग्रहणे इति न्यायात् अटि सति जातिश्च णि' ३-२-५१ इति पुंबद्भावे मद्रराजीति प्राप्नोतीत्याशङ्का । न रूपभेद इति सखीशब्दस्य ईकारान्तस्यापि पञ्चानां सखीन्मं समाहार इति 'क्लीबे' २-४-९७ इति ह्रस्वत्वे इदन्तादेवाद भवति, तथा च पश्चसखमिति, तथा सखीमतिकान्त इति कृते सखीशब्दादडभावेऽपि 'गोश्चान्त' २-४-९६ इति कृते सखिद्वारेणाद प्राप्नोत्येव, तथा पञ्चानां सखी इत्यपि कृते अटि अडभावेऽपि तत्पुरुषस्योत्तरपदप्रधानत्वात् पञ्चसखीत्येव रूपम् , एवमन्यदपि रूपभेदाहेतुकमभ्यूयम् । राष्ट्राख्याद्ब्रह्मणः ॥ ७. ३. १०७ ॥
राष्ट्रवाचिनः परो यो ब्रह्मशब्दस्तदन्तात्तत्पुरुषाद समासान्तो भवति । सुराष्ट्र ब्रह्मा सुराष्ट्रब्रह्मः, यः सुराष्ट्रेषु वसति स सौराष्ट्रिको ब्राह्मण इत्यर्थः । एवमवन्तिब्रह्मः, काशिब्रह्मः ।।
राष्ट्राख्यादिति किम् । देवब्रह्मा नारदः। आख्यग्रहणं राष्ट्र. बाच्यर्थम् ॥१०॥