________________
३३४ ] बृहवृत्ति-लघुन्याससंलिते [पाद. ३ सू० १०३-१०४ ] इत्यादिना इस्वत्वे द्विखारिः। स्त्रीत्वमध्यन्ये । तन्मते पूर्ववदध्रस्वत्वे 'इतोऽक्त्यर्थात् ' (२-४-३२) इति ङ्यां च द्विखारी। एवं पञ्चखारम् पञ्चखारी, द्विखारमयम, द्विखारीमयम्, पञ्चखाररूप्यम्, पञ्चखारीरूप्यम्, द्विखारप्रियः, द्विखारीप्रियः, पञ्चखारधनः, पञ्चखारीधनः । द्विगोरित्येव ? उपखारि, अधिखारि । अलुक इत्यस्य प्रत्युदाहरणं नास्ति विशेषाभावात् । यतस्तद्धितलुक्यडशवेऽपि 'यादे:'-(२-४-९४ ) इत्यादिना डोलुकि पुन्नपुंसकयो द्विखारः द्विखारम्, स्त्रियां तु 'परिमाणात्तद्धितलुकि'-(२-३-२३) इत्यादिना डीप्रत्यये द्विखारीति भवति । एतच्च रूप्यमयपि भवति । इदन्तात् ङ्यां खारीत्येके । तदा तु अस्त्येव विशेषः ।१०२॥
न्या. स. खार्या०-पुंस्त्वमपीच्छन्तीति स्थिते तु अन्यस्तु सर्वो नपुंसक इति क्लीवत्वमेव ।
द्विखार इति भवेदमर्थादावण क्रीते त्वर्थे 'खारीकाकणीभ्यः कच्' ६-४-१४९ प्राप्नोति तस्य च विधानसामर्थ्यात् लुप् न भवति 'द्विगोरनपत्ये ६-१-२४ इत्यणो लुप् । द्विखारीति द्वे खार्यो मानमस्याः स्यात , 'मात्रट' ७-१-१४५ इति मात्रटू 'द्विगोः संशये च' ७-१-१४४ इति लुप् 'परिमाणात् ' २-४-२३ इति ङीः । ।
इदन्तात् ज्यामिति स्वमते तु खारडिति निपातने टानुबन्धात् टिद्वारेण डोः। अस्त्येव विशेष इति यतस्तद्धितलुकि इदन्ता प्रकृतिरवतिष्ठते । वार्धाच ।। ७. ३. १०३ ॥
अर्धशब्दात्परो यः खारीशब्दस्तदन्ताच्च समासादलुकोऽट् समासान्तो वा भवति । ‘समेंऽशेऽधं नवा' (३-१-५४) इत्यर्धशब्दे यः प्रतिपदं समास उक्तस्तत्रायं विधिः, अर्घ खार्याः अर्धखारम् अर्घखारी। विधानसामर्थ्यादडन्तस्य न स्त्रियां वत्तिः । चकारो द्विगोरनुकर्षणार्थः । तेनोत्तरत्र द्वयमप्यनुवर्तते ॥१०३॥
न्या. स. वार्धा-प्रतिपदमिति लक्षणप्रतिपदोक्तयोः' इति न्यायात् , तत्राय विधिरिति न बहुव्रीह्यादौ । द्वयमपीति इह तु प्रयोजनम् । नावः ॥ ७. ३. १०४॥
अर्धशब्दात्परो यो नौशब्दस्तदन्तात्समासात् द्विगोश्च नौशब्दान्तादलुकोऽट समासान्तो भवति । अर्धं नाव: अर्धनावम् अर्धनावी, द्विगोः, द्विनावम्, पञ्चनावम्, द्विनावमयम्, पञ्चनावमयम्, द्विनावरूप्यम्, पञ्चनावरूप्यम्, द्विनावप्रियः, द्विनावधनः । अलुक इत्येव ! द्वाभ्यां नोभ्यां क्रीतः द्विनौः, पञ्चनौः। द्विगोरित्येव ? द्वयोनौंः द्विनौः, अर्धादित्येव ? राजनौः, परमनौः ।