SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ बृहवृत्ति-लघुन्यासर्सवलिते [पाद. ३ सू. १०८-११२ कुमहद्भ्यां वा । ७. ३. १०८॥ कु महदित्येताभ्यां परो यो ब्रह्मनशब्दस्तदन्तात्तत्पुरुषाद्वाट् समासान्तो भवति । पापो ब्रह्मा कुब्रह्मा कुब्रह्मः, महान् ब्रह्मा महाब्रह्मः महाब्रह्मा, पापो महांश्च ब्राह्मण एवमुच्यते ॥१०॥ ग्रामकोटात्तक्ष्णः ॥ ७. ३. १०९ ॥ ग्रामकोट इत्येताभ्यां परो यस्तक्षनशब्दस्तदन्तात्तत्पुरुषाद समासान्तो भवति । ग्रामस्य तक्षा ग्रामतक्षः, ग्रामसाधारण इत्यर्थः । कुटी शाला तस्यां भवः कोटः कौटस्तक्षा कौटतक्षः, स्वापणशालायां यः कर्म करोति स्वतन्त्रो न कस्यचित्प्रतिबद्ध इत्यर्थः । ग्रामकोटादिति किम् ? राजतक्षा । तत्पुरुषादित्येव । ग्रामश्च तक्षा च ग्रामतक्षाणौ । कौटस्तक्षास्य कौटतक्षा ।।१०९।। गोष्ठाते: शुनः ।। ७. ३. ११०॥ ___ गोष्ठ अति इत्येताभ्यां परो यः श्वनशब्दस्तदन्तात्तत्पुरुषादट् समासान्तो भवति गोष्ठे श्वा गोष्ठश्वः, अतिक्रान्तः श्वानम् अतिश्वो वराहः अतिजवन इत्यर्थः । अतिश्वः सेवकः। सुष्ठु स्वामिभक्त इत्यर्थः। अतिश्वी सेवा। अतिनीचेत्यर्थः ॥११०॥ प्राणिन उपमानात् ॥७. ३. १११॥ प्राणिवाचिन उपमानात्परो यः श्वनशम्दस्तदन्तात्तत्पुरुषाद समासान्तो भवति । व्याघ्र इव व्याघ्रः स चासो श्वा च व्याघ्रश्वः, ' उपमेयं व्याघ्रायः साम्यानुक्तो' (३-१-१०२) इति समासः । अत एव वचनात् श्वनशब्दस्य परनिपातः। मयूरव्यंसकादित्वाद्वा समासः । एवं सिंहश्वः, वृकश्वः । प्राणिन उपमानादिति पूर्वपदविज्ञानादिह न भवति । वानरः श्वेव वानरश्वा । प्राणिन इति किम् ? फलकमिव श्वा फलकवा । उपमान ग्रहणं किम् ? देवदतश्वा । प्राणी उपमानभूतो यः श्वाशब्दः तदन्तात्तत्पुरुषादिच्छन्त्येके । व्याघ्रः श्वेव व्याघ्रश्वः । एवं सिंहश्वः, वृकश्वः, पुरुषश्वः तन्मते वानर श्वेत्यत्र समासान्तविधे नित्यत्वान्न भवति ॥१११।। भ्या० स० प्राणि-परनिपात इति प्रथमोक्तत्वेन उपमेयस्य पूर्वनिपाते प्राप्ते । अप्राणिनि ॥ ७. ३. ११२ ॥ पूर्वसूत्रे उपमानादिति पूर्वपदस्य विशेषणम् इह तु शुनः, अप्राणिनि
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy