________________
१.]
बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० २०-२२ तू नागममिच्छन्ति, सात्वन्तः, कुरु पञ्चाल इन्द्रावसान उष्णिह ककुभ् अकारान्तावतावित्यन्ये । सुवर्ण, हंसपथ, वर्धमान इति उत्सादि ॥१९॥
न्या० स० उत्सा०-ौत्स इति-'अत इन' ६-१-३१ प्राप्नोति । तारुण इति 'सोऽपत्ये ६-१-२८ इत्येतस्य बाधको 'क्याप्त्यूङः ६-१-७० इत्यनेनैयण् स्यात् ।
पाञ्चाल इति-'ईतोऽकर' ६-३-४१ इत्यधिकारे भवार्थे 'बहुविषयेभ्यः' ६-३-४५ इत्यकञ् प्राप्नोति । कुरोरपत्यमिति - ननु यद्यणपवादेऽप्यन भवति कथं कौरव्य इति ? इत्याहकुरोरपत्यमिति-ध्यविधाविति-राष्ट्रक्षत्रियवाचकस्य ‘दुनादि' ६-१-११८ इत्यादिना बाह्मणवाचकस्य तु 'कुर्वादेर्व्यः' ६-१-१००।
विवक्षायां भविष्यतीति - अनेनैवाञ् प्रत्यय इति, अन्यथा किं तत्र समासप्रतिषेधेन प्रहणवता नाम्ना इत्यनेनैव न्यायेन केवलस्य लब्धत्वात् ।
गौ धेनवमिति – 'जङ्गलधेनु' ७-४-२४ इति षोत्तरपद वृद्धिः। अच्छन्दसीति – अच्छन्दसीत्यादयो ग्रीष्मादोनामर्थनिर्देशार्थाः सप्तम्यन्ताः। .
पश्चाल इति - 'अमद्रस्य दिशः' ७-४-१६ 'मद्राद' ६-३-२४ इत्येतयोः सूत्रयोर्यानि सुपांचालकादीनि दर्शितानि तानि मतान्तरेण, ते हि उत्सादी ब्राह्मणवाचिनं पश्चाल शब्दं पठन्ति । गष्ट्रवचनात्त्वकबेव, स्वमते त्वकञ् च प्राप्नुवन्तीति भणनाद् राष्ट्राका प्राप्ती उत्सादिपाठ इति अक न स्यादेव । बष्कयादसमासे ॥६. १. २०॥
बष्कयशब्दादसमासे वर्तमानात् प्राग्जितीऽर्थेऽनिदम्यणपवादे चान् प्रत्ययो भवति । बष्कयस्यापत्यं बाष्कयः । असमास इति किम् ? सुबष्कयस्यापत्यं सौबष्कयिः । इव ॥२०॥
न्या० स० - बष्का-बाष्कय इति-वस्कते गोदूंरं 'गयहृदयादयः' ३७० (उणादि)। बस्कतेऽल्पक्षीरतां बष्काऽच् पृषोदरादित्वात् षत्वं बष्कां याति 'आतो ड' ५-१-७६ इति डः 'क्यापो बहुलं नाम्नि' २-४-९९ इति हृस्वः।
देवाद्यञ्च ॥६. १. २१ ॥
देवशब्दात्प्राजितीयेऽर्थेऽनिदम्यणपवादे च यम् चकारादन् प्रत्ययो भवति। देवस्येदं देवादागतं वा देव्यम् दैव्वम्, यजन्तादान्ताच्च इयां देवी वाक् । केचित्तु ञ्यप्रत्ययमपीच्छन्ति, तन्मते दैव्या ॥२१॥
न्या. स०-देवाद्यच्च-देवी बागिति 'यत्रो डायन च बा' २-४-६७ इति वा डायनि देव्यायनीत्यपि ।
अः स्थाम्नः ॥ ६. १. २२॥