________________
[पाद. १. सू. २३-२४] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [११
स्थामन् शब्दात्प्रागजितीयेऽर्थे अ: प्रत्ययो भवति । अश्वत्थाम्नोऽपत्यमश्वत्यामः ॥२२॥
न्या० स० अः स्थाम्न:-अश्वत्थाम्न इति, अश्व इव तिष्ठति 'मन् वन्क्वनिप्' ५-१-१४७ पृषोदगदित्वात् सस्य तः, इष्टिवशात्तदन्ताद् विधिः, एवमुत्तरत्र ।
लोग्नोऽपत्येषु ॥ ६. १. २३ ॥ लोमन्शब्दात्प्राजितीयेऽपत्यलक्षणेऽर्थे अः प्रत्ययो भवति । उदुलोम्नाऽपत्यानि उडुलोमाः, शरलोमाः, उडुलोमः, शरलोमैः । अपत्येष्विति बहुवचनात् एकस्मिन्नपत्ये द्वयोश्च वाह्वादित्वादिओव, औडुलोमिना औडुलोमिभ्याम् ॥२३॥ दिगोग्नपत्ये यस्वगदे बद्धिः ॥ ६. १. २४ ॥
अपत्यादिन्यस्मिन प्रागजितीयेऽर्थे उत्पन्नस्य द्विगोः परस्य यकारावेः स्वरादेश्च प्रत्ययस्य सकृल्लुप् भवति न तु द्विः । द्वयो रथयाद्विरथ्या वायं वोढा द्विरथः । — रथात्सादेश्च वाढङ्ग' इत्यर्थे ' यः' (६-३-१७६) इति यः । पञ्चसु कपालेषु पञ्चकपाल्यां वा संस्कृतः पञ्चकपालः, पञ्चेन्द्राण्यः पञ्चेन्द्राणि वा देवताम्य पञ्चेन्द्रः, चतुगेऽनयोगान् चतुरनुयोगो वाधीते चतुरनुयागः । एवं त्रिवेदः । एष्वण् । द्विगोरिति किम् ? पूर्वशालायां भवः पौर्वशाल:, व्यवयवा विद्या त्रिविद्या तामधोते त्रविद्यः । अनपत्य इति किम् ? द्वैमातुरः, पाञ्चनापितिः। यस्वरादेरिति किम् ? पञ्चभ्यो गर्गेभ्य आगतं पञ्चगर्गमयम् । अद्विरिति किम् ? पञ्चसु कपालेषु संस्कृतं पञ्चकपालं तस्येदं पाञ्चकपालम् । एवं वेदम् । प्रागजितादित्येव ? द्वो रथो वहति द्विरथ्यः, 'वहति '-(७-१-२) इत्यादिना यः । द्वाभ्यां नोभ्यां तरति द्वैनाविकः ।।२४।।
म्या० स० द्विगौर०-विरथ इति-यदा द्वयो रथयोशेढेति वाक्यं तदा तद्धितविषये द्विगुः, यदा तु द्विरथ्या वेति तदा समाहारविषये द्विगुः यथासंभवं 'झ्यादेः' २-४-९५ इति को निवृत्तिः, एवमन्यत्रापि ।
अद्विरिति किमिति-अयमर्थः ननु अद्विरिति विनापि द्वितीय प्रत्ययस्य लुब् न भविष्यति. लुप्रस्य प्रथमप्रत्ययस्य स्थानिवेन द्विगोर्व्यवधायकत्वात्तत् किमद्विर्गहणेन ? नैवं, 'दूरवणः' ६-१-१२३ इत्यत्र यौधेयस्य भर्गादिपाठात प्रत्ययलोप इति न्यायस्यानित्यत्वं, भर्गादिपाठो हि यौधेयात् शत्रजोविसंघविवक्षायां 'यौधेयादेरञ् । ७-३-६५ इति स्वार्थावन्तात् 'गोत्राददण्ड' ६-३-१६९ इति प्राप्तस्याऽकयो बाधकः, 'संघघोष' ६-३-१७२ इत्यण् यथा स्यान्नाकषित्येवमर्थः, यदि च प्रत्ययलोप इति न्यायः स्यात्तदा भर्गादिपाठो व्यर्थः स्यात् ।