________________
[ पाद. १. सू. १८-१९] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः
[ ९
कलिना दृष्टं साम कालेयम्, आग्नेयम्, कलेरिदम् काळेयम् आग्नेयम् । अणपवादे च, कलेरागतं कालेयम्, आग्नेयम् । अत्र ' नृहेतुभ्यः ~( ६-३१५५) इत्यादिना रूप्यमयटी स्याताम् अन्ये तु जितार्थात्परेष्वपि प्राग्वतीयेष्व र्थेष्वेयणमिच्छन्ति । कलये हितं कालेयम् आग्नेयम् । कलेनिमित्तं उत्पातः संयोगो वा कालेयः, आग्नेयः ॥ १७॥
कल्यग्नेरेयण-आग्नेय मति - ण मुख्ययोरिंति अग्निरिवाग्निर्यदा तदा न भवतीति भोजपरिभाषावृत्तिः, एतच भाष्यानुयाथि, एवं- 'बांसुदेवार्जुनादकः ६-३-२०७ इत्यादावपि ।
पृथिव्या ञञ् ॥ ६१. १८॥
पृथिवीशब्दात्प्राग् जितीयेऽर्थेऽनिदम्यणपवादे च आञ् इत्येतौ प्रत्ययौ भवतः । पृथिव्यां भवः पार्थिवः, प्रावो स्त्रियां विशेषः । पार्थिवा, पार्थिवी । अगपवादे च पृथिव्या अपत्यं पार्थिवः पार्थिवा, पार्थिवी । अत्र एयण् स्यात्, ङी 'बहुषु लुप्” संघादिष्वणिति प्रयोजनमज्विधानस्य ॥१८॥
* न्या० स० पृथिव्या – पार्थिवेति-जातित्वेऽप्यजादित्वादापू यद्वा प्रत्ययद्वय - विधानस्य व्यातिपुरःसरत्वेन व्याख्यानादाबित्यनेनैवाप् न तु जातिद्वारा ङीः ।
C
7
'बहुषु लुबिति - पृथिव्या अपत्यानि अनेनाञ् 'यसनः ' ६-१-१२६ इति लुप् ' क्यादेः ' २०४ - ९५ इति ङीनिवृत्तिर्न गौरादी पृथिवीति पाठात 'गोश्चान्त' २-४-९६ इति ह्रस्वत्वे जसि प्रथिवयः । संघादिष्विति - पृथिव्या अपत्यानि अनो लुपि पृथिवीनां - संघादीति विवक्षायां. 'गोत्राददण्ड ' ६-३-१६९ इत्यक अनिषये 'न प्रागूजितीये' ६-१-१३५ इति अत्रो लुबभावे अकबाधके ' संघघोषाङ्क ६-३-१७२ इत्यणि पार्थिवः ।
उत्सादेर ।। ६. ११९ ॥
उत्स इत्येवमादिभ्यः शब्देभ्यः प्राग्जितीयेऽर्थेऽनिदम्यणपवावे चाम् प्रत्ययो भवति । उत्सस्येदमौत्सम्, औदपानम्, अणपवादे च - उत्सस्यापत्यम् औत्सः, औदपान:, तरुण्या अपत्यं, तारुणः, तालुनः, पञ्चालेषु भवः पाञ्चालः । अत्र इञ् एयण्' अकञ् च प्राप्नुवन्ति । कुरोरपत्यं कौरव्य इति ञ्यविधो कुरुशब्दोपादानस्यानवकाशत्वात् भवति । कौरव इति त्वपत्यस्यापीदमर्थ विवक्षायां भविष्यति । उत्तरत्र वष्कयशब्दस्य समासे: प्रतिषेधादुत्साद्यन्तस्यापोह प्रत्यया, तेन गोधेनुभ्य आगतं गौधेनवमिति सिद्धम् । अन्यथा रूप्यमयटी स्याताम् । उत्स, उदपान, विकर, विनय, महानद, महानस, महाप्राण, महाप्रयाण, तरुण, तलुन, धेनु, पङ्क्ति, जगती, बृहती, त्रिष्टुभ, मिहदित्यपि केचित् । सत्वत् सच्छब्दो मत्वन्तः । सत्वतोऽपत्यं तत्र भवो वा सात्वतः, अन्ये
/.