________________
८
।
बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० १६-१७) न्या० स० अनिद० आदित्य्यमिति-अदितेरपत्यं यः, आदित्यो देवतास्येति व्यः, अवर्णेवर्ण' ७-४-६८ 'तद्धितयस्वर' २-४-९२ इनि यलोपः, 'ततोऽस्याः' १-३-३४ द्वित्वं, अथवा अदितिर्देवताऽस्य व्यः, आदित्यो देवताऽस्येति न्या, 'अवर्णवर्णस्य ४-४-६८ इत्यकारलोपः तदा यस्य लप न भवत्यनपत्यत्वात । आदित्यस्यापत्यमिति-अदितिर्देवता अस्याऽपत्ये त वाच्ये आपत्यस्य यस्य लोपः स्यात्, अत्र 'अवृद्धाद्बोर्नवा' ६-१-११० इत्यायनिमः पले इश् प्राप्नोति, स बाथ्यते ।
ज्यो हीति-ननु च ज्योऽप्यणपवाद इञादयोऽपि तत्र यदीयादयो यं बाधित्वापि स्युः, तदा ञ्यस्य कोऽवकाश इत्यनवकाशत्वात् परानपीबादीनसौ बाधेत किमणंपवादग्रहणेन ? इत्याह-ज्यो होत्यादि अयमर्थः 'प्राजितात्' ६-१-१३ इत्यनेन यो विहितोऽण् तस्यान्योऽपवादो नास्ति, तत्रैतत्सूत्रं सावकाशं ततश्चेह आदित्यस्यापत्यं वनस्पतीनां समूह इत्यादावुभयप्राप्ती असत्यणपवादग्रहणे इवादिरेव स्यात् न भ्यः ।
__अणपवादग्रहणमिति-अणोऽपवादविषये ज्यो न स्यात्, तत्राणपवाद एव स्यादित्यर्थः । स्यापवादविषयपाति-स्वस्यापवादः स्वापवादः तस्य तथाहि वास्तोष्पत्यभाये इत्यत्र वास्तोष्पतिर्देवतास्या इति वाक्ये 'देवता'६-२-१०१ इत्यणपवादोऽनेन भ्यः प्राप्तस्तदपवादो 'यावापृथिवो' ६-२-१०८ इति य इति तस्यापवादोऽयं स्यादित्यर्थः ।
ननु व्यस्य ' द्यावापृथिवी' ६-२-१०८ इति यस्य वा को विशेष इत्याह-तद्धितः स्ववृद्धिरिति-आदित्यस्येरमिति-अदितेरपत्यमिति कर्तव्यं, अन्यथेये आपत्याभावात् 'तद्धितय म्वर' २-४-९२ इति लुप् न स्यात् । न वाच्यं 'गोत्राददण्ड' ६-३-१६९ इतीयबाधकोऽकञ् स्यात्, यतस्तत्र स्वापत्यसंतानस्येति विशिष्टं गात्रं लातं, एतच्च 'पुनर्भूपुत्र'.६-१-३९ इति सूत्रे पूनाधपत्यस्याऽगोत्रत्वात् गोत्राधिकारविहिता लुप् संघाद्यऽण् च न भविष्यतीत भणनात् ज्ञायते ।
निदा दणिोरिति चेति-यमस्यापत्यं वृद्धं याम्य, याम्यस्यापत्यं युवा 'अत इन' ६-१-३१, “बदार्षादणिबाः' ६-१-१४० इति लोपे याम्यः पिता पुत्रश्च । बहिषष्टीकण च ॥ ६. १. १६ ।।
बहिस् इत्येतस्मात् प्रागजितीयेऽर्थे टीकण् प्रत्ययो भवति चकाराद् ञ्यश्च । बहिर्जातो बाहीकः, बाह्यः, बाह्या । 'प्रायोऽव्ययस्य' (७-४-६५) इति अन्त्यस्वरादिलोपः, टकारो ड्यर्थः । बाहीकी। णकारो णित्कार्यार्थः ॥१६॥
न्या. स०-बहिषष्टीकण् च-बाहीक इति-'जातेऽर्थे । ६-३-९८ भवेतु 'यज्ञ ज्य ६-३-१३४ इत्याधिकारे 'गम्भीरपञ्चजन' ६-३-१३५ इति ज्य एव स्यात् न टोकण , ज्योऽप्यऽत्र जात एव, भवेतु सिद्धत्वात् ।। कल्यग्नेरेयण ॥ ६. १. १७ ।।
कलि अग्नि इत्येताभ्यां प्राजितीयेऽर्थेऽनिदम्यणपवादे च एयण् प्रत्ययो भवति । कलिर्देवतास्य कालेयम्, आग्नेयम्, कलो भवं कालेयम्, आग्नेयम्,