SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३३२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू० ९७-९९ ) ऋक्सामे । ऋक् च यजुश्च ऋग्यजुषमधीयानान् । धेनुश्च अनड्वांश्च धेन्वनडुहौ, धेन्वनडुहाः। असमाहारार्थं धेन्वनडुहग्रहणम् । समाहारे तूत्तरेणैव सिद्धम । वाक च मनश्च वाङमनसे, अहश्च रात्रिश्च अहोरात्रः, पुण्याविमावहोरात्री, रात्रिश्च दिवा च रात्रिंदिवम्, रात्रिंदिवानि पश्यति । निपातनात्पूर्वपदस्य मोऽन्तः, नक्त च दिवा च नक्त दिवम्, अत्रापि, मोऽन्तः । अहश्च दिवा च अहर्दिवम् । पर्याययोरपि वीप्सायां द्वन्द्वो निपातनात् । अहरहरित्यर्थः । रात्रिपर्यायोऽत्रान्यतर इत्येके । अहनिशमित्यर्थः, ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनादन्त्यस्वरादिलोपः, पादौ चाष्ठोवन्तौ च पदष्ठीवम् । अत्र पद्धावश्च । अक्षिणी च भ्रुवौ च अक्षिध्रुवम् । दाराश्च गावश्च दारगवम्, अत्र वैशब्दस्य निपातनादुवादेशोऽक्षिदारशब्दयोश्च पूर्वनिपातः । द्वन्द्वादित्येव ? ऋक् साम यस्य ऋक्सामा मुग्धः । ऋग्यजुर्यस्य स ऋग्यजुः, धेनोरनड्वान् धेन्वनऽवान् । ६७ । न्या० स० ऋक्साम-ननु चाहर्दिवंशब्दौ तुल्यार्थों तयोश्चोक्तार्थानामप्रयोग इति वा 'समानाम् ' ३-१-११८ इत्येकशेषारम्भाद् वा द्वंद्वो नोपपद्यत इत्याह-पर्याययोरपीत्यादि । पूर्वनिपात इति लघ्वक्षर' ३-१-१६० इत्यादिना अल्पस्वरत्वेन भू-गोशब्दयोः पूर्वनिपाते प्राप्ते चवर्गदषहः समाहारे ॥ ७. ३. ९८ ॥ चवर्गदकारषकारहकारान्ताद्वन्द्वात्समाहारेर्थे वर्तमानादत्समासान्तो भवति । वाक् च त्वक् च वाकवचम्, वाक् च समुच्च वाक्समुच्छम, श्रीस्रजम् । द्, समिदृपदम्, संपद्विपदम् ष, वात्विषम् । बागविग्रुषम् ह, छत्रोपानहम्, गोगोदुहम् । समासान्तत्वेन प्रत्ययस्य द्वन्द्वावयवत्वात् छत्रोपानहिनीति द्वन्द्वलक्षणो मत्वर्थीय इन् भवति । चवर्गदषह इति किम् दृषत्समित् । यकृन्मेदः । समाहारे इति किम् ? प्रावृटशरद्भ्याम्, अश्वानडुद्भ्याम् द्वन्द्वादित्येव ? पञ्च वाचः समाहृताः पञ्चवाक ।९८॥ न्या स० चवर्ग०-वाक्समुच्छमिति उच्छत विवास इत्यस्य विप् 'अनुनासिके च' ४-१-१०८ इति शत्वस्यानित्यत्वात् समुच्छेविचि वा । गोगोदुहमिति अत्र गोशब्दः किरणादिपर्यायस्ततः समाहारो भवति, अन्यथा तु गवि वर्तमानस्य स्वैरिति व्यावृत्तिविषयत्वान्न स्यात् समाहारः, एवं दारगवमित्यत्रापि, यद्वा गोधुक वत्सा गां दोग्धीति व्युत्पत्त्या। दिगोरनबोष्ट् ॥ ७. ३. ९९ ।। अन्नन्तादहनशब्दान्ताच्च द्विगोः समाहारे वर्तमानादट् समासान्तो भवति ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy