SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ [ पाद. ३. सू. ९३-९६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [३३१ ___शरद्. त्यद्, तद्, यद्, कियत्, हिरुक, हिमवत, उपसद्, सदस्, अदस्, अनस्, मनस्, विपाश्, दिश, दृश, विश्, उपानह, अनडुह, चतुर् दिव् । अत्रापञ्चमवान्तपाठो नित्यार्थः । अव्ययीभावादित्येव । परमशरद् । ९२ । ___ न्या० स० शरदा०-विपाशिति पाशं पाशाद् वा विमोचयति णिच् वसिष्ठं विपाशितवती 'विशिविपाशिभ्याम् । ९५० (उणादि) इति वा क्विप् ।। जराया जरसू च ॥ ७. ३. ९३ ॥ जराशब्दान्तादव्ययीभावसमासादसमासान्तो भवति तत्संनियोगे च जराशब्दस्य जरसादेशः ।। उपजरसम् । प्रतिजरसम् । ९३। सरजसोपशुनानुगवम् ॥ ७. ३. ९४ ॥ सरजस, उपशुन, अनुगव इत्येतेऽव्ययीभावा अदन्ता निपात्यन्ते । सह रजसा सरजसमभ्यवहरति । साकल्येऽव्ययीभावः, शुनः समीपे उपशुनं तिष्ठति । अत्र निपातनाद्वस्योत्वम् । गामन्वायतमनुगवम् । 'दयेऽनः' (३-१-३४) इत्यव्यययीभावः, दैदिन्यत्र न भवति । गवां पश्चादनग यानम् । १४ । जातमहदद्धादुक्ष्णः कर्मधारयात् ॥ ७. ३. ९५ ॥ जातमहवृद्ध इत्येतेभ्यः परो य उक्षनशब्दस्तदन्तात्कर्मधारयादत्समासान्तो भवति । जातश्चासावुक्षा च जातोक्षः, महोक्षः, वृद्धोक्षः । जातादिभ्य इति किम् ? परमोक्षा, उत्तमोक्षा। उक्षण इति किम ? महाश्मश्रु । कर्मधारयादिति किम् ? जातस्योक्षा जातोक्षा, महदुक्षा, वृद्धोक्षा । ९५ । स्त्रियाः पुंसो द्वन्दाच ॥ ७. ३. ९६ ॥ स्त्रीशब्दात्परो यः पुम्स्शब्दस्तदन्ताद्वन्द्वात्कर्मधारयाश्चात् समासान्तो भवति । स्त्री च पुमांश्च स्त्रीपुस स्त्रीपुसौ स्त्रीपुसाः । कर्मधारयात् स्त्री चासौ पुमांश्च स्त्रीपुसः शिखण्डौ, स्त्रीपुसं विद्धि राक्षसम् । द्वन्द्वाच्चेति किम् ? स्त्रियाः पुमान् स्त्रीपुमान् । ९६ । ऋक्सामय॑जुषधेन्वनडुहवाङ्मनसाहोरात्ररात्रिंदिवनक्तंदिवाहर्दि वोर्वष्ठीवपदष्ठीवाक्षिभ्रवदारगवम् ॥ ७. ३. ९७ ॥ ऋक्सामादो द्वन्द्वा अत्प्रत्ययान्ता निपात्यन्ते । ऋक् च साम च
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy