SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३३० ] बृहद्वृत्ति- लघुन्याससंवलिते [ पा० ३. सू० ८८-९२ ] गणत्वादप्रत्ययेन भविष्यति ॥ अक्षशब्देनेन्द्रियपर्यायेण सिद्धे प्रत्यादिभ्यः परस्याक्षिशब्दस्याव्ययीभावे प्रयोगो मा भूदिति वचनम् ॥८७॥ अनः ॥ ७ ३.८८ ॥ अन्नन्तादव्ययीभावादत्समासान्तो भवति । उपराजम्, उपतक्षम्, अध्यात्मम्, प्रत्यात्मम् ॥८८॥ नपुंसकाद्वा ।। ७. ३. ८९ ।। अनन्तं यन्नपुंसकं तदन्तादव्ययीभावादत्समासान्तो वा भवति । उपचर्मम्, उपचर्म, प्रतिकर्मम् प्रतिकर्म, प्रतिसाम, प्रतिसामम्, अनुलोम अनुलोमम् प्रतिलोम, प्रतिलोमम्, । पूर्वेण नित्ये प्राप्ते विकल्पः । ८९ । गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवर्ण्याद्वा ॥ ७. ३. ९० ।। गिरि नदी पौर्णमासी आग्रहायणी इत्येतच्छब्दान्तात्पञ्चमरहिता ये वयस्तदन्ताच्चाव्ययीभावात्समासादत्समामान्तो भवति वा । गिरेरन्तः अन्तर्गिरम् अन्तर्गिरि, गिरेः समीपमुपगिरम्, उपगिरि, एवमुपनदम् उपनदि, उपपौर्णमासम् उपपौर्णमासि, उपाग्रहायणम्, उपाग्रहायणि, अपञ्चमवर्ग्य, उपस्रुचम् उपस्रुक्, अधिस्रजम्, अधिस्रक्, उपैडविडम्, उपंडविड्, प्रतिमरुतम्, प्रतिमरुत्, उपदृषदम्, उपदृषद्, उपसमिधम्, उपसमित्, उपककुभम्, उपककुब् । ९० । न्या० स० गिरिनदी०—उपैड बिडमिति इडविडोऽपत्यं स्त्री ' राष्ट्रश्नत्रिय ' ६-१-११४ इत्यत्र ' द्रेण: ' ६-१-१२३ इति लुप् अनेनात् विषये 'जातिश्च णि ३-२-५१ इति पुंवद्भावेऽनः प्रत्यावृत्तिः ततो वगन्तित्वाभावादत् न भवति, पुंवद्भाव एव चाऽस्य फलम् । संख्याया नदीगोदावरीभ्याम् ॥ ७ ३.९९ ॥ · संख्यावाचिनः परो यो नदीगोदावरीशब्दो तदन्तादव्ययीभावसमासादत्समासान्तो भवति । पञ्च नद्यः पञ्चनदम्, सप्तनदम्, द्विगोदावरम्, त्रिगोदावरम् । संख्याया इति किम् ? उपनदि । अव्ययीभावादित्येव ? एकनदी । इह नदीग्रहणं नित्यार्थम् । ९१ । शरदादेः ।। ७. ३. ९२ ॥ शरदाद्यन्तादव्ययीभावसमासादत्समासान्तो भवति । शरदः समीपमुपशरदम्, प्रतिशरदम्, उपत्यदम्, प्रतिश्यदम् ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy