SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३२६ ] बृहृवृत्ति-लघुन्याससंलिते [पाद. ३ सू० ७३-७५ ] परमराजः, परमसख:, परममव:। प्राक्टादिति किम् ? स्वङ्गलं काष्ठम्, अत्यगुलं काष्ठम्, सुसक्थः, अतिसक्थः, स्वक्षः, अत्यक्षः ॥७२॥ बहोर्ड ।। ७. ३.७३ ॥ ___ डे डविषये डप्रसङ्गो यत्र ततो बह्वन्तात्समासान्तो डः कच् च न भवति । आसन्ना बहवो येषां ते आसन्नबहवः, उपबहवः । बहोरिति किम् ? द्वित्राः, उपदशाः । ड इति किम् ? प्रिया बहवोऽस्य प्रियबहुकः ।७३। न्या० स० बहो०-आसन्नबहव इति 'आसन्नदूर' ३-१-२० इति सः, 'बहुगणं भेदे' १-१-४० इति संख्यावद्भावात् 'प्रमाणीसंख्याड्डः'७-३-१२८ इति ड प्रत्ययः प्राप्नोति, तस्मिन् निषिद्धे 'शेषाद् वा' ७-२-१७५ इति कच्च प्राप्नोति, उभयस्यापि सामान्येनाऽयं प्रतिषेध इत्युभयमपि न भवति । उपबहव इति 'अव्ययम्' ३-१-२१ इति समासः । प्रियबहक इति 'एकार्थ चाऽनेक च' ३-१-२२ इति सामान्यसमासः, ततः 'प्रमाणीसंख्याड्डः ' ७-३-१२८ इत्यत्र प्रतिपदोक्तबहुव्रीहेर्ग्रहणात् बहोवैपुल्यर्थत्वेन का संख्यात्वाभावे डः समासान्तो न भवति किंतु कच् । इच् युद्ध ॥ ७. ३. ७४ ॥ युद्धे यः समासो विहितस्तस्मादिच् समासान्तो भवति । केशाके शि, दण्डादण्डि, मुसलामुसलि, मुष्टामुष्टि, अस्यसि । चकारः 'इच्यस्वरे दीर्घ आच्च' (३-२-७२) इत्यत्र विशेषणार्थः ।७४। न्या० स० इच् युद्ध-विशेषणार्थ इति अथ तत्राऽपि इरित्येव क्रियताम् ? न, तथा सति 'दृतिनाथात् पशाविः' ५-१-९७ इत्यस्मिन्नपीकारे दीर्घप्रसङ्गः। द्विदण्डयादिः ।। ७. ३. ७५॥ द्विदण्डि इत्येवमादयः समासा इजन्ताः साधवो भवन्ति । द्वौ दण्डावस्मिन प्रहरणे द्विदण्डि प्रहरति । एवं द्विमुसलि, उभादन्ति उभयादन्ति, उभाबाहु, उभयाबाहु । उभौ हस्तावस्मिन्पाने उभाहस्ति पिबति । एवमुभयाहस्ति । उभापाणि उभयापाणि, उभाञ्जलि, उभयाञ्जलि, उभौ कर्णावस्मिन् श्रवणे उभाणि श्रणोति, एवमुभयाकणि । अन्ते वासोऽस्मिन्स्थानेऽन्तेवासि तिष्ठति । अन्तेवासी गुरोरिति ताच्छीलिकान्तोऽन्य एव शब्दः । संहितानि पुच्छान्यस्मिन् सरणे संहितपुच्छि धावन्ति । एकः पादोऽस्मिन् गमने एकपदि गच्छति, समानी पादावस्मिन्सपदि गच्छति । आच्यपादौ आच्यपादे शेते । एवं प्रोझपादे हस्तिनं वायति, निकुच्य कर्णो निकुच्यकणि धावति ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy