SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ पाद. ३. सू. ६९-७२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः । ३२५ समासान्तः ॥ ७. ३. ६९ ॥ अधिकारोऽयमापादपरिसमाप्तः, अतः परं ये प्रत्ययास्ते समासस्यान्ता अवयवा भवन्ति तद्गहणेन गृह्यन्ते । प्रयोजनं बहुब्री ह्यव्ययीभावद्विगुद्वन्द्वसंज्ञाः। सुजम्भे खुजम्मानौ स्त्रियौ। अत्रानो वहुव्रीहिग्रहणेन ग्रहणात् डापडीविकल्पः सिद्धः । उपधुरम् उपशरदम्, अत्रातोऽव्ययीभावग्रहणेन ग्रहणाद्विभक्तीनामम्भावः । द्विधुरी, त्रिधुरी । अत्र द्विगुग्रहणेन ग्रहणान्डीः । चाग्दृषदिनी स्रक्वचिनी । अत्र द्वन्द्वग्रहणेन ग्रहणादिन् । ६९ । न्या० स० समा० द्वंद्वसंज्ञा इति उपलक्षणं चेदं. कर्मधारयादिसंज्ञा अपि भवति । न किमः क्षेपे ॥ ७. ३. ७० ॥ · निन्दायां यः किंशब्दस्तस्मात् परे म अगादयो यानुरादाय समासान्तो विधास्यते तदन्ताद्वक्ष्यमाणः समासान्तो न भवति । किर्या न तथा गर्वी, कि राजा यो न रक्षति, स किसखा योऽभिद्रुह्यति, किंगौयों न वहति, का कुत्सिता धूरस्य किंधूः शकटम्, के कुत्सिते अक्षिणी अस्म किमक्षिाह्मणः । किम इति किम् ? कुराजः । दुःसखः । क्षेपे इति किम् ? केषां राजा किंराजः, किंसखः, किंगवः ।७।। नञ्तत्पुरुषात् ॥ ७. ३. ७१ ॥ नञ्तत्पुरुषाद्वक्ष्यमाणः समासान्तो न भवति । न ऋक अनक, अराजा, असखा, अपन्थाः। अपथमिति पथशब्दस्य यथा कुपथम् । तत्पुरुषादिति किम् ? न विद्यते धूरस्य अधुरं शकटम्, अपयोऽयमुद्देशः । राज्ञामभावोऽराज वर्तते ।७११ ___ न्या० स० न०-कुपथमिति यद्यत्र पथिनशब्दः स्यात्तदा 'काक्षपयोः' ३-२-१३४ प्रवर्तेत । पूजास्वतेः पाक टात् ॥७. ३. ७२ ।। पूजायां यो स्वती ताभ्यां परे ष ऋगादयस्तदन्तात्समासात् बहुव्रीहेः काष्ठे टः' (७-३-१२५) इति टप्रत्ययात्प्राक् यः समासान्तो वक्ष्यते स न भवति । शोभना धूः सुधूः, अतिधूः, सुराजा, अतिराजा, सुधूः शकटम्, अतिधूः शकटम्, सुसखा, अतिसखा, सुपौः, अतिगौः । पूजाग्रहणं किम् ? अतिक्रान्तो राजानमतिराजः, अतिसखः, अतिगवः । स्वतेरिति किम् ? परमधुरा,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy