________________
३२४ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. ३ सू. ६७-६९ ] पशु, रक्षस्, असुर, वहलिक, वयस्, (वचस्) वसु मरुत्, सत्वन्, सत्वन्तु दशाह पिशाच अशनि, कार्षापण इति पर्वादिः । ६६ ।।
न्या स० पर्वा०-लुबिति खियामेकत्वेऽपि लुप् भवतीत्यर्थः । दामन्यादेशयः ॥ ७. ३. ६७ ॥
दामन्यादिभ्यः शस्त्रजीविसंघेभ्यः स्वार्थे ईयः प्रत्ययो भवति स च दिः । दमनस्यापत्यं बहवः कुमारास्ते शस्त्रजीविसंघः, दामनीयः, दामनीयौ, दामनयः, औलपीयः, औलपीयौ, औलपयः ।।
दामनि, औलपि, औपाल, वैजवापि, औदकि, आच्युतन्ति, काकन्दि काकन्दकि, ककुन्दि, ककुन्दकि, शाक्रन्तपि, (शत्रुन्तपि) सार्वसेनि, बिन्दु, तुलभा, मौजायन, औदमेघि, औपबिन्दि सावित्रीपुत्र, कोण्ठोपरथ, कोण्डोपरथ, कोण्ठारथ, दाण्डकि, क्रौष्टकि, जालमानि, जारमाणि, ब्रह्मगुप्त, ब्राह्मगुप्त, जानकि इति दामन्यादिः । ६७ । श्रुमच्छमीवच्छिखावच्छालावदृर्णावद्धिदभृदभिजितो गोत्रेऽणो
यञ् ॥ ७. ३. ६८॥ शस्त्र जीविसंघादिति निवृत्तम्, श्रमच्छमीवच्छिखावच्छालावदूर्णावद्विदभृदभिजिदित्येतेभ्यो गोत्रे योऽण् तदन्तेभ्यः स्वार्थे यञ् प्रत्ययो भवति स च दिः। भुमतोऽपत्यमण् तदन्ताद्यम् । श्रीमत्यः, श्रीमत्यौ, श्रीमताः । श्रीमच्छब्दादपि केचिदिच्छन्ति । श्रमत्यः, श्रमत्यौ, श्रमताः, शामीवत्यः, शामीवत्यो, शामीवताः, शैखावत्यः, शेखावत्यौ, शेखावताः, शालावत्यः, शालावत्यो, शालावताः, और्णावत्यः और्णावत्यौः, औविताः, वैदभृत्यः, वैदभृत्यौ, वैदभृताः, आभिजित्यः, आभिजित्यो, आभिजिताः । गोत्रग्रहणं किम्? श्रुमत इदं श्रीमतम्, आभिजितो मुहूर्त: । आभिजितः स्थालीपाकः, अपत्यप्रत्ययान्तात्स्वार्थिकोsपत्य एव वर्तते इति तदाश्रयः प्रत्ययो भवति । श्रीमत्यस्यापत्यं युवा श्रीमत्यायनः, आभिजित्यायनः। अत्र 'यजिनः' (६-१-६४) इत्यायनण् । श्रीमत्यस्यायं श्रीमतकः, आभिजितकः, अत्र ‘गोत्राददण्ड '-(६-३-१६८) इत्यादिनाऽकञ् । श्रीमतानां समूहः श्रीमतकम् , आभिजितकम् । अत्र गोत्रोक्ष-(६-२-१२) इत्यादिनाऽकञ् । श्रीमत्यस्य संघादि भौमतम् आभिजितम् । अत्र 'संघघोषाङ्कलक्षणेऽञ्यनिञः' (६-३-१७१) इत्यण् । ६८।