________________
पाद. ३. सू, ७६-७८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३२७ 'तिष्ठद्गवादित्वादव्ययीभावः । उभाबाह उभयाबाह्वित्यत्र निपातनादिलपि स्थानिवद्भावादिजन्तत्वेनाच्ययीभावसंज्ञा। विभक्त्यलुक पादस्य पद्भावः समानस्य सभावश्चेत्यादि सर्व निपातनात् सिद्धम् । क्रियाविशेषणाच्चान्यत्र न भवति । द्वौ दण्डावस्यां शालायां । द्विदण्डा, द्विमुसला । ७५ ।
न्या० स० द्विद-उभयापाणीति उभस्थ उभयोऽद्वित्वे इत्यनुपदकारसूत्रं ततः उभयः पाणिः उभयो वा पाणयो यस्मिन्नित्येकत्वे बहुत्वे एव वाक्यं कार्य, एषमन्यत्राऽपि । ऋकपू-पथ्यपोऽत् ॥ ७. ३. ७६ ॥
ऋच्, पुर, पथिन्, अप् इत्येतदन्तात्समासादत् अकारः समासान्तो भवति । ऋ चोऽर्धम् अर्धर्चः, ऋचः. समोपमुपर्चम्, सप्तर्च सूक्तम्, उच्चारितर्चः । पुर्, श्रियाः पू: श्रीश्चासौ पूश्चेति वा श्रीपुरम्, पिष्टपुरम्, त्रिपुरम्, स्फोतपुरो देशः । पथिन्, जलपथः, स्थलपधः, उपपथम्, प्रतिपथम्, विशालपथं नगरम्, अप्, द्विर्मता आपोऽस्मिन् द्वीपम्, समीपम्, प्रतीपम् बह्वपं तडागम्, पुरपथशब्दाभ्यां सिद्ध पुर् पथिन् इत्येतयोरुपादानमेतद्विषये प्रयोगनिवृत्त्यर्थम् । ७६ ।
. न्या० स० ऋक्तः०–त्रिपुरमिति तिसृणां पुरां समाहारः, उत्तरपदस्यादन्तस्वाभावात् स्त्रीत्वाभावः, किंतु अन्यस्तु सर्वो नपुंसकः प्रयोगनिवृत्त्यर्थमिति समासान्तविषये व्यञ्जनान्तयोः प्रयोगो न भवतीत्यर्थः । . धुरोऽनक्षस्य ॥ ७. ३. ७७ ।।
धुरन्तात्समासादत् समासान्तो भवति सा चेद्धः अक्षसंबन्धिनी न भवति । राज्यधुरा, रणधुस द्विधुरी, त्रिधुरी, उपधुरम् महाधुरं शकटम् । अनक्षस्येति किम् ? अक्षधूः दृढधूरक्षः । ७७ ।
न्या० स० धुरो० -अक्षसंबन्धिनी नेति शब्दद्वारकमेतन्नार्थद्वारकम, सेन महाधुरं शकटमिति सिद्धम् ।
द्विधुरीत्यादि द्वयोः धुरोः समाहारः, तिसृणां धुरां समाहारः, अन्यस्तु सर्वो नपुंसक इति वचने सत्यपि तद्बहुलमिति स्त्रीत्वे 'द्विगोः' २-४-२२ इति डीः । संख्यापाण्डूदकृष्णाद्भूमेः ७. ३. ७८ ॥
संख्यावाचिभ्यः पाण्डु उदच् कृष्ण इत्येतेभ्यश्च नामभ्यः परो यो भूमिशब्दस्तदन्तात्समासादसमासान्तो भवति । द्वयोभूम्योः समाहारो द्विभूमम्, त्रिभूमम् द्वे भूमो अस्य द्विभूमः त्रिभूमः प्रासादः पाण्डुभूमिः पाण्डभूमम् पाण्डुभूमो देशः, उदीची भूमिः उदगभूमम्, उदग्भूमो देशः,