________________
[ पाद. ३. सू. ५६-६० ] श्रीसिद्धहेमचन्द्र शब्दानुशासने सप्तमोध्यायः
तावादेश्चात्यन्ते ।। ७. ३. ५६ ।।
क्तान्तात्केवलात्तम बाद्यन्ताच्चानत्यन्तेऽर्थे वर्तमानात् कप् प्रत्ययो भवति । क्रियायाः स्वनाश्रयेण साकल्येनानभिसंबन्धोऽनत्यन्तता । अनत्यन्तं भिन्नं भिन्नकम्, अनत्यन्तं छिन्नं छिन्नकम्, अनश्यन्तं भिन्ना भिन्निका घटी, छिन्निका रज्जुः, तमबाद्यन्तात् क्तात्, अनत्यन्तं भिन्नतमं भिन्नतमकम्, एवं भिन्नतर कम् भिन्नकल्पम्, भिन्नकल्पकम् छिन्नतमकम्, छिन्नतरकम्, छिन्नक्ल्पम्, तमबाधन्तेषु क्तान्तता नास्तीति तम्बादिग्रहणम् । असमासस्तमबादेरित्यत्रापि क्तादित्यस्य सबन्धार्थ:, तेनेह न भवति । अनत्यन्तं शुक्लतमम् ॥५६।
न सामिवचने ॥ ७. ३. ५७ ।।
सामि अर्धः, सामिवचने उपपदे अनत्यन्तेऽर्थे वर्तमानात् क्तान्तात्केवलात्तमबाद्यन्ताच्च कप् प्रत्ययो न भवति । सामि अनत्यन्तं भिन्नम्, एवं कृतं भुक्तं पीतम् । भिन्नतमम्, भिन्नतरम् । वचनग्रहणं पर्यायार्थम् । अर्धमनत्यन्तं भिन्नम् | नेममनत्यन्तं भिन्नम् । एवं शकलं खण्डमित्यादि । अन्ये तु समास एवोदाहरन्ति । सामिकृतम् अर्धकृतमिति । ननु साम्यादिभिरेवानत्यन्तताया अभिहितत्वादुक्तार्थत्वेन कप् न प्राप्नोतीति व्यर्थः प्रतिषेधः । उच्यते साम्यादिभिः समुदायविषयक्रियाया एवानत्यन्तता प्रतीयते न स्वविषये । तत्रानत्यन्तविवक्षायां कं प्राप्नोतोति प्रतिषेधवचनम् । ५७ ।
[ ३२१
नित्यं ञञिनोऽण् ॥ ७. ३. ५८ ॥
जञिन् इत्येतत्प्रत्ययान्तात्स्वार्थे नित्यमण् प्रत्ययो भवति । नित्यग्रहणामहाविभाषा निवृत्ता । व्यावक्रोशी, व्यावलेखी, व्यावहासी वर्तते । ञिन्, सांकोटिनम्, सांराविणम्, सामाजिनम् । ५८
विसारिणो मत्स्ये । ७. ३. ५९ ॥
विसारिन् शब्दान्मत्स्ये वर्तमानात्स्वार्थेऽण् प्रत्ययो भवति । विसरतीति विसारी, ग्रहादित्वाणिन् । मत्स्यश्चेत् वैसारिणः । मत्स्य इति किम् ? विसारी देवदत्तः । ५९।
पूगाद मुख्यक | यो द्रिः ।। ७. ३.६० ॥
नानाजातीया अनियतवृत्तयोऽर्थ कामप्रधानाः संघाः पूगाः । पूगवाचिनो नाम्नः स्वार्थे ञ्यः प्रत्ययो भवति सच द्विसंज्ञः न चेत्पूगवाचि नाम ' सोऽस्य