________________
३२०
बृहद्वृत्ति-लघुन्यास संवलिते
[ पाद. ३ सू० ५४-५५ उतर: प्रत्ययो भवति । यतरो भक्तोः कठः पटुर्गन्ता देवदत्तो दण्डी वा ततर आगच्छतु । कतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा अन्यतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा महावाधिकारात्प्रत्ययो न भवत्यपि । यो भक्तोः पटुः स आगच्छतु । को भवतोः पटुः, अन्यो भवतो: पटुः, द्वयोरित्येव ? योऽस्मिन् ग्रामे प्रधानं स आगच्छतु । निर्धार्य इत्येव ? योsनयोर्ग्रामयोः स्वामी स आगच्छतु । ५३ ।
बहूनां प्रश्न उतमश्च वा ॥ ७. ३. ५४ ॥
यद्, तद्, किम्, अन्य इत्येतेभ्यो बहूनां मध्ये निर्धार्येऽर्थे वर्तमानेभ्यः प्रश्नविषये उतमः प्रत्ययो वा भवति चकाराड्डतरश्च । यतमो यतरो वा भवतां कठस्ततमस्ततरो वा आगच्छतु कतमः कतरो वा भवतां कठः, प्रमाणान्तरात् प्रतिपतो बहूनामप्रयोगेऽपि भवति । यथा बहुष्वासीनेषु कश्चित्कंचित्पृच्छति कतमो देवदत्तः कतरो देवदत्तः । अन्यतमोऽन्यतरों वा भवतां कठः । शुचिवल्कवीत व पुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः । वृद्धस्तु व्याधितो वा राजा मातृवन्धुकुल्य गुणवत्सामन्तानामन्यतमेन क्षेत्रे बीजमुत्पादयेत् । वावचनमगर्थम् । यको भवतां कठः सक आगच्छतु, अन्यक raf कालाप: । किमस्तु साकः कादेश उक्तः । महावाधिकारात् प्रत्ययो न भवत्यपि । यो भवतां कठः स आगच्छतु । बहूनामिति किम् ? योऽस्मिन् ग्रामे कठः स आगच्छतु । प्रश्न इति किम् ? क्षेपे माभूत् । को भवतां कठः कुत्सित इत्यर्थः । प्रश्नग्रहणं किमो विशेषणं नान्यस्यासंभवात् । अन्ये वाहुः यत्तत्कियो जातावेव उतमः; डतरस्तु बहूनां निर्धार्ये किम एव न यत्तद्भ्याम्, सच जातावेव, अन्यशब्दादपि बहुविषये डतम एव न तु डतरः, डतरडतमौ च निर्धार्ये अन्यशब्दान्नित्यावेव नाक्, नापि केवलस्य प्रयोगः, एके स्व विशेषेणेत्यत्राभिधानमनुसर्तव्यम् ॥५४॥
वैकात्
।। ७. ३.५५ ।
एकशब्दात् बहूनामेकस्मिन् निर्धार्येऽर्थे वर्तमानात् उतमः प्रत्ययो वा भवति । एकतमो भवतां कठः पटुर्गन्ता देवदत्तो दण्डी वा । वावचनादक्, एककः । महावाधिकारान्न भवत्यपि । एको भवतां कठः । पृथग्योगो उतरनिवृत्त्यर्थः ॥ ५५ ॥