________________
[पाद. ३. सू. ४९-५३ श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३१९ 'कुत्वा डुपः ॥७. ३. ४९ ॥
कुतूशब्दाभ्रस्वेऽर्थे वर्तमानात्स्वार्थे डुपः प्रत्ययो भवति । ह्रस्वा कुतूः कुतुपः, कुतूरिति चर्ममयं तैलाधावपनमुच्यते । ४९५ कासूगाणीभ्यां तस्ट् ॥ ७. ३. ५० ।।
कासूगोणी इत्येताभ्यां ह्रस्वेऽर्थे वर्तमानाभ्यां तर प्रत्ययो भवति । ह्रस्वा कासूः कासूतरी, गोणीतरी। पुलिङ्गमपि दृश्यते इत्येके । कासूतरः, गोणीतरः, कासूः शक्तिमायुधम् । गोणी धान्यावपनम् । टकारो ङयर्थः ।५। वत्सोक्षाश्वर्षमाधासे पित् ॥ ७. ३. ५१ ॥
वत्स, उक्षन् , अश्व, ऋषभ इत्येतेभ्यः शब्दप्रवृत्तिनिमितस्य स्वार्थस्य ह्रासे गम्यमाने तरट् प्रत्ययो भवति स च पित् ।
हसितो वत्सः वत्सतरः । वसः प्रथमवयस्को गौः तस्य ह्रासो द्वितीयवयःप्राप्तिः, हसित उक्षा उक्षतरः, उक्षा द्वितीय बयास्तरुणस्तस्य ह्रासस्तृतीयवयःप्राप्तिः । ह्रसितोऽश्वोऽवतरः । अश्वेनाश्वाया जातोऽश्वस्तस्य ह्रासो गर्दभपितृकता, आशुगमनाद्वाश्वस्तस्य हासो गमने मन्दता, सर्बथाश्वतरशब्दो जातिशब्दः, हसित ऋषभः ऋषभतरः, ऋषभोऽनड्वान् बलीयान् तस्य हासो भारवहने मन्दशक्तिता, प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तस्य हासे भवति । इह माभूत् कृशो वस्सो वत्सत्तर इति । पित्करणं पुवद्भावार्थम् । हसिता वत्सा वत्सतरी, हसिताश्वा अश्वतरी । ५११
वैकाद् द्वयोर्निर्धार्ये डतः ॥ ७. ३. ५२ ॥ ___ समुदायादेकदेशो जातिगणक्रियासंज्ञाद्रव्यनिष्कृष्य बुध्या पृथकक्रियमाणो निर्धार्यः। एकशब्दात् द्वयोर्मध्ये निर्धार्येऽर्थे वर्तमानात् डतरः प्रत्ययो वा भवति । एकतरो भवतोः कठः पटुमन्ता देवदत्तो दण्डी वा। वावचनम् अगर्थम् । एकको भवतोः कठः पटुर्वा, महावाधिकारान्न भवत्यपि । एको भवतोः पटुः । द्वयोरिति किम् ? एकोऽस्मिन् ग्रामे प्रधानम् । निर्धार्य इति किम् ? एकोऽनयोमियोः स्वामी । ५२ ।
न्या. स. वैकाद अगर्थमिति महावाधिकारेणेव सिद्धे किमर्थ वावचनमित्याशङ्का । यत्तकिमन्यात् ।। ७. ३. ५३ ॥
यद् , तद् , किम्, अन्य इत्येतेभ्यो द्वयोरेकस्मिन् निर्धार्येऽर्थे वर्तमानेभ्यो