________________
३२२ ] बृहवृत्ति-लघुन्याससवलिते [ पाद. ३ सू० ६१-६२-६३ ] मुख्यः' (७-१-१९०) इति विहितकप्प्रत्ययान्तं भवति । लोहध्वजाः पूगाः, लौहध्वज्यः, लोहध्वज्यौ, लोहध्वजाः, शैब्यः, शैब्यौ, शिबयः, वातक्यः, वातक्यौ, वातकाः । द्रित्वात् बहुष्वस्त्रियां लुप् । अमुख्यकादिति किम् ? देवदत्तो मुख्योऽस्य देवदत्तकः, इन्द्राग्निलुप्तकः पूगः ।६०। वातादस्त्रियाम् ॥ ७. ३.६१ ॥
नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा वाता: । वातवाचिनोऽस्त्रियां वर्तमानात् स्वार्थे ज्यः प्रत्ययो भवति स च द्रिसंज्ञः । कापोतपाक्यः, कापोतपाक्यो, कपोतपाकाः, हिमत्यः, वैहिमत्यौ, व्रीहिमताः । अस्त्रियामिति किम् ? कपोतपाका, व्रीहिमता स्त्री ।६१। शस्त्रजीविसंघायड् वा ॥ ७. ३. ६२ ॥
शस्त्र जीविनां यः सघस्तद्वाचिनः स्वार्थे ज्यट प्रत्ययो भवति स च दिसंज्ञः । शबराः शखजीविसंघः। शाबर्यः, शाबयौं, शबराः, पौलिन्द्यः, पौलिन्द्यौ, पुलिन्दाः । कुन्ते रपत्यं बहवो माणवकाः कुन्तयः, ते शस्त्र जीविसघः कौन्त्यः, कौन्त्यौ, कुन्तयः । पक्षे शबरः । पुलिन्दः । शस्त्रजी विग्रहणं किम् ? मल्लाः संघः, मल्लः, मल्ली, मल्ला:, शयण्डः, शयण्डौ, शयण्डाः । संघादिति किम् ? सम्राट्, वागुरः, वागुरो, वागुराः । नैते श्रेणिबद्धा इति न संघः । टकारो ङयर्थः। शाबरी, पोलिन्दी, कौन्ती ।६।
· न्या० स० शस्त्र० कुन्तय इनि एततसूत्रायातस्यापि ब्यटो 'बहुध्वस्त्रियाम् ' ६-१-१२४ इति लुपु, शयण्ड इति शयण्डा योधृविशेषा येषां लोके चउकडिया इति प्रसिद्धिः । कौन्तीति कुन्तरपत्यं बहवो माणवकास्ते शस्त्रजीविसंघः स्त्रोत्वविशिष्टो विवक्षितः, 'दुनादि' ६-१-११८ इति ज्यः, 'कुन्त्यवन्तेः स्त्रियाम् ' ६-१-१२१ इति लुप्, 'नुर्जातेः' २-४-७२ डीः ततः 'शस्त्रजीविसंघायद' ७-३-६२ वा 'अवर्णेऽवर्णस्य' ७-४- 'अणबेये २-४-२० इति डी, 'व्यज्जनात्तद्धितस्य' २-४-८८ इति यलुप् । वाहीकेष्वब्राह्मणराजन्येभ्यः ॥ ७. ३. ६३ ॥
वाहीकेषु यः शस्त्रजीविसंघो ब्राह्मणराजन्यजितस्तद्वाचिनः स्वार्थे ज्यट प्रत्ययो नित्यं भवति स च द्रिसंज्ञः । कुण्डीविशाः शस्त्रजीविसंघः, कौण्डीविश्यः, कोण्डीविश्यौ, कुण्डीविशाः क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः, मालव्यः, मालव्यो, मालवाः। वाहीकेष्विति किम् ? शबराः शस्त्रजोविसंघः। शबरः, शबरौ, पुलिन्दः, पुलिन्दौ ।-अब्राह्मणराजन्येभ्य इति किम् ? गौपालिः, गौपाली, शालकायनः, शालकायनौ, राजन्यः, राजन्यौ, काम्बव्यः, काम्बव्यौ। स्त्रियां राजन्या