SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३१४ ] बृहवृत्ति-लघुन्याससंवलिते [ पाद. ३ सू० ३५ ] मानायां यथायोगं कबादयः प्रत्यया भवन्ति । अनुकम्पा तन्नीतिश्च प्रयोक्तृधमौं वेदितव्यो । पुत्रकः, वत्सकः, बालकः, बुभुक्षितकः, ज्वरितकः, शनकैः, तूष्णोकाम्, स्वपितकि, स्वपिषकि, जल्पतकि, एहकि । अनुकम्पमान एवं प्रयुङ्क्ते पुत्रक एहकि उत्सङ्गके उपविश कदमकेनासि दिग्धकः कण्टकस्ते लग्नकः, वत्सक तूष्णीकां तिष्ठ ओदनं भोक्ष्यसे हन्त ते गुडका हन्त ते धानका अकि । अत्रोपविश असि तिष्ठ ओदनं भोक्ष्यसे हन्त ते इत्येतेष्वनभिधानान्न भवति, यत्र त्वभिधानं तत्र भवति । नक त्वकं पुत्रक पश्यसकि, असको काकको वृक्षके उच्चकैः प्रणिलीयते । अनुकम्पायां प्रत्यासत्तेरनुकम्प्यमानादेव स्यात् नान्यस्मात् उत्सङ्गादेस्ततोऽपि यथा स्यादिति तद्युक्तनीतिग्रहणम् । ३४ ।। न्या० स० अनु० गुडका इति गुडेन मिश्रा धाना इति विग्रहे ते लुग् वा' ३-२-१०८ इति धानाशब्दस्य लुकि अनेन कप् । धानका इति अत्र गुडशब्दलोपे कपि 'इच्चापुंसोऽनि.' २-४-१०७ इति नवा इहृस्वौ। अजाते।नाम्नो बहुस्वरादियेकेलं वा ॥ ७. ३. ३५ ॥ तयुक्तनीताविति न वर्तते अनुकम्प्यादेव प्रत्ययविधानात् , ननाम्नो मनुष्यनामयाबहुस्वरादनुकम्पायां गम्यमानायां इय इक इल इत्येते प्रत्यया भवन्ति वा अजातेः न चेन्मनुष्यनाम जातिशब्दो भवति । अनकम्पितो देवदत्तः देवियः, देविकः, देविलः । वावचनात्कबपि । देवदत्तकः, जिनियः, जिनिकः, जिनिलः । जिनदत्तकः । अजातेरिति किम् । महिपकः । वराहकः । शरभकः। सूकरकः। गर्दभकः । एते जातिशब्दा मनुष्यनामानि च । अजातेरिति प्रायिको निषेध इत्यन्ये । व्याघ्रिल: सिहिल इति हि दृश्यते, तन्मते बहुस्वरादित्यपि प्रायिकम् । नृनाम्न इति किम् ? सुसीमकः, सीमा स्फटा । नृग्रहणं किम् ? अनुकम्पितो देवदत्तो हस्ती देवदत्तकः । नामग्रहणं किम् ? मद्रबाहुकः । विशेषणमेतन्न नाम । बहुस्वरादिति किम् ? रामकः, गुप्तकः । ३५ । न्या० स० अजा-तद्युक्तनीताविति न वर्तते इति नृनाम्न इत्युक्ते नृनाम्नो हि अनुकम्पैव घटते न तत्युक्तनीतिः । ध्याघ्रिल इत्यादि अत्र व्याघ्रसिंहइत्येवंविधा द्विस्वरेव प्रकृतिर्न तु व्याघ्रदत्तसिंहदत्तेत्यनेकस्वरा द्विस्वरयोरेवानयोर्जातिवोचित्वात् बहुस्वरादित्यपि प्रायिकमित्यस्यासंगतार्थत्वापत्तेश्च । देवदत्तो हस्तीति कस्यचित् हस्तिनो देवदत्त इति नाम ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy