SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ [ पाद ३. सू. ३६-३८ ] श्रीसिद्धहेम चन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३१५ वोपादेरडाको च ॥ ७. ३. ३६ ॥ उपपूर्वादजातिरूपान्मनुष्यनामधेयाद्बहुस्वरादनुकम्पायां गम्यमानायां अड अक चकारात् इय इक इल इत्येते प्रत्यया वा भवन्ति । अनुकम्पित उपेन्द्रदत्त: उपड:, उपकः, उपियः, उपिकः, उपिलः । वावचनात्पक्षे कबपि । उपेन्द्रदत्तकः । ३६ । न्या० स० वोपा० - उपढ इति 'आतो नेन्द्र' ७-४-२९ इति ज्ञापकादकृत संघेरेव 'द्वितीयात्स्वरादूर्ध्वम् ' ७ - ३ - ४१ इति इन्द्रदत्तेत्यस्य लुक् । ऋवर्णोवर्णात्स्वरादेरादेर्लुक् प्रकृत्या च ।। ७. ३. ३७ ।। ऋवर्णान्तादुवर्णान्ताच्च परस्यानुकम्पायां विहितस्य स्वरादेः प्रत्ययस्यादेर्लुग्भवति तच्च ऋवर्णोवर्णान्तं लुकि सति प्रकृत्या तिष्ठति । न विकारमापद्यत इत्यर्थः । अनुकम्पितो मातृदत्तः मातृय:, मातृकः, मातृलः । अनुकम्पितः पितृदत्तः पितृयः, पितृकः, पितृलः । अनुकम्पितो वायुदत्तः वायुय:, वायुकः, वायुल: । अनुकम्पितो भानुदत्तः भानुयः, भानुकः, भानुल:, प्रकृतिवद्भावात् रेफावादेशौ न भवतः । ऋवर्णोवर्णादिति किम् ? अनुकम्पितो देवदत्तो देवियः, देविकः, देविलः । अनुकम्पितो वागाशीः, वाचियः, वाचिकः वाचिलः । स्वरादेरिति किम् ? मद्रबाहुकः । आदेरिति किम् ? सर्वस्य माभूत् । ३७ ॥ न्या० स० ऋवर्णो० – रेफावादेशाविति 'ऋतो रस्तद्धिते १-२-२६ इति अपदान्ते वर्त्तमानस्य 'अस्वयं भुवोऽवू' ७-४-७० इति च । , मद्रबाहुक इति मण्डूकप्लुतिन्यायेनाधिकारानुवृत्तिरिति नृनामेति पदं न संबध्यते, ततोऽत्र विशेषण शब्दत्वेन नृनामत्वाभावेऽपि व्यावृत्तेर्न द्वयगविकलता, यदा तु नृनामेत्यत्रापि संबध्यते तदेदमपि नृनाम विवक्ष्यते, ततः अजातेर्नृनाम्नः ' ७-३-३५ इत्यनेन इयादौ प्रत्यये विकल्पेन सति मत्रियः मद्रबाहुक इत्यादीन्यपि भवन्ति । लुक्युत्तरपदस्य कपून् ॥ ७. ३. ३८ ॥ नूनाम्नो यदुत्तरपदं तस्य ते लुग्वेति लुकि सति ततः कप्न् प्रत्ययो भवति अनुकम्पायां गम्यमानायाम्, कबादीनामपवादः । देवदत्तो देवः । अत्र ' ते लुग्वा ' ( ३-२-१०८ ) इत्युत्तरपदलोपः । अनुकम्पितो देवः देवकः, एवमनुकम्पितो यज्ञः यज्ञकः, पकारः पुंवद्भावार्थः । नकारः ' इच्चापु सोऽनित्क्यापरे' (२-४- १०६ ) इत्यत्र पर्युदासार्थः । अनुकम्पिता देवी देवका । अत्र कति सति पित्त्वात्पुंवद्भावे नित्त्वादाप्परेऽपि ककारे इत्वं न भवति ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy