________________
पाद. ३. सू. ३२-३४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३१३ कपोऽपवादः । कुत्सितमल्पमज्ञातं वा उच्चैः उच्चकैः, नीचैस्, नीचकः, धिक् धकित्, हिरुक हिरकुद, पृथक् पृथकद् । चकारोऽन्वाचये तेन सर्वस्याव्ययस्याक् भवति । ककारान्तस्य त्वक् दान्तादेशश्च । योगविभागस्त्यादेर्दादेशाभावार्यः । शक्लट् शक्तो। यह लुप् दिव, अशाशक् । अकि, अशाशकक् ।३१। तूष्णीकाम् ॥ ७. ३. ३२ ॥
तूष्णीकामिति तूष्णीमो मकारात्पूर्व का इत्यागमो निपात्यते प्रानित्यात्, अकोऽपवादः । कुत्सितमल्पमज्ञातं वा तूष्णीं तूष्णीकाम् आस्ते । तूष्णीकां तिष्ठति ॥३२॥ कुत्सिताल्पाज्ञाते ॥ ७. ३. ३३ ॥
कुत्सितं निन्दितम, अल्पं महत्प्रतियोगि, अज्ञातं प्रकृत्युपात्तधर्मव्यतिरेकेण केनचित् स्वत्वादिना धर्मेणानिश्चितम्, सर्वथा त्वज्ञाते प्रयोगायोगात् । कुत्तिताल्पाज्ञातोपाधिकेऽर्थे वर्तमामाद्यथायोगं कबादयः प्रत्यया भवन्ति ।
__ कुत्सितोऽल्पोऽज्ञातो वाश्वः अश्वकः, गर्दभकः, घृतकम्, तैलकम्, पचतकि, भिन्धकि, सर्वके, विश्वके, उच्चकैः, नीचकैः, तूष्णीकाम् । कथं कुत्सितकः, अल्पकः, अज्ञातकः। कुत्सादीनां भेदोपपत्तेः कुत्सितादिभ्योऽपि कुत्सितादौ प्रत्ययो भवति प्रकृष्टतर इत्यादी प्रकर्षभेदे तरवादिवत् ।
राधकः, पूर्णकः, शूदक इत्यादौ सत्यामपि संज्ञायां कुत्सायोगात् कुत्सित इत्येव कप् । व्याकरणकेन नाम त्वं गर्वितः याज्ञिक्यकेन नाम त्वं विकत्थसे इत्यादी अवक्षेपणमपि कुत्सितमेव । नाकुत्सितेनावक्षिप्यते ।३३।
न्या० स० कुत्सि०-कथमिति कुत्सितादेः प्रकृत्यैव गतार्थत्वात् प्रत्ययस्यार्थाभावान्न तदर्थद्योती प्रत्ययोऽत्र युक्त इत्याशङ्का । कुत्सायोगादिति तेनान्यैरिव संज्ञायां कप् न विधातव्यः, यथा
अज्ञाते कुत्सिते चैव, संज्ञायामनुकम्पने ।
ताक्तनीतावप्यल्पे, वाच्ये ह्रस्वे च कः स्मृतः ॥१॥ भवक्षेपणमपीति व्याकरणं कुत्सनं वैयाकरणस्तु कुत्सित इति व्याकरणात् कथं प्रत्यय इत्याशका । अनुकम्पातधुक्तनीत्योः ॥ ७. ३. ३४ ॥
अनुकम्पा कारुण्येन परस्यानुग्रहः । तया अनुकम्पया युक्ता नीतिस्तद्युक्तनीतिः, नीतिः सामादिप्रयोगः, तत्रानुकम्पायां सामोपप्रदाने एव न भेददण्डो तयोः अनुकम्पाया अयोगात् । अनुकम्पायां तद्युक्तायां नीती भ गम्य