________________
३१२ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. ३ सू० २९-३१ । तव्यः । कुत्सितोऽल्पोऽज्ञातो वा अश्वः अश्वकः, गर्दभकः, पकार: वद्भावार्थः ।। कुत्सिता दरद् दारदिका, प्रागनित्यादित्यवध्यर्थम् । अन्यथापवादबाधितो नोत्तरत्रानुवर्तेत । परतोऽपि चानुवर्तते ।२८।
न्या० स० प्रागनि०-दारदिकेति दरदां राज्ञी 'पुरुमगध '६-१-११६ इत्यणु, 'द्रेरणो ६-१-१२३ :ति लुप्, ततोऽनेन कपि 'क्यङ्मानि' ३-२-५० इत्यनेन अण्लोपनिवृत्तिरूफे पुंवाके 'आत् ' २-४-१८ इत्याप् 'अस्यायत्तत् ' २-४-१११ इत्वम् , यदा त्वपत्ये अण् तदा गोत्रं च चरणैः सहेति जातित्वे 'स्वाङ्ग्मन् ङोतिश्च' ३-२-५६ इति वन्निषेधः स्यात् । त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक ॥ ७. ३. २९ ॥
त्याद्यन्तस्य सर्वादोनां च स्वरेषु स्वराणां मध्ये योऽत्यस्वरस्तस्मात पूर्वोऽक् प्रत्ययो भवति, प्रागनित्यात् कपोऽपवादः । कुत्सितमल्पमज्ञातं वा पचति पचतकि । पचतकः, पचन्तकि । सर्वादि, सर्वके, विश्वके, सर्वकस्म, विश्वकस्मै, यकतापिता, तकत्पिता, त्वकपिता, मकत्पिता, परमसर्वके, परमविश्वके । तदन्तस्यापि सर्वादित्वमस्तीत्यत्राप्यक् । स्वरेष्वन्त्यादिति किम् ? त्याधन्तात्सर्वादेश्च पूर्व माभूत् । पूर्व इति किम् ? परो माभूत् ।२९।
न्या० स० त्यादि०-यकत्पितेत्यादिषु बहुव्रीहिवर्ज समासः कार्यः, बहुव्रीही तु 'ऋन्नित्यदितः' ७-३-१७१ कच् स्यात् । . युष्मदस्मदोऽसोभादिस्यादेः ।। ७. ३. ३०॥
युष्मदस्मदित्येतयोः सकाराद्योकारादिभकारादिजितस्याद्यन्तयोः स्व. रेष्वन्त्यात्पूर्वोऽक् प्रत्ययो भवति । युष्मदस्मदोः स्वरेष्वन्त्यात्पूर्वस्यापवादः । स्वयका, मयका, त्वयकि, मयकि, युष्माककम् , अस्माककम् , परमत्वयका, परममयका, युष्मदस्मद इति किम् ? तकया, यकया, सर्वकेण, विश्वकेन, इमकेन, अमुकेन, इमकः, अमुकैः, भवकन्तौ, भवकन्त: । केचिद्भवच्छब्दस्यापि स्याद्यन्तस्यान्त्यस्वरात्पूर्वमकमिच्छन्ति । तन्मते, भवतका भवतके भवतकः भवतकोत्यपि भवति । असोभादिस्यादेरिति किम् ? युष्मकासु, अस्मकासु, युवकयोः, आवकयोः, युवकाभ्याम्, आवकाभ्याम्, युष्मकाभिः, अस्मकाभिः ।३०। अव्ययस्य को दु च ॥ ७. ३. ३१ ॥
प्राइनित्याद्यऽर्थास्तेषु छोत्येषु अव्ययस्य स्वरेष्वन्त्यात्स्वरात्पूर्वमक प्रत्ययो भवति तत्संनियागे यत्ककारान्तमव्ययं तस्य दकारोन्तादेशो भवति,