SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ [ पाद. ३. सू. ७-८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [३०५ अभेदैकत्वसंख्यायोग्युपाददात न संख्याभेदमिति द्वयोरेव प्रकर्षः। यदा पूनरितरेतरयोगस्तदा बह्वर्थप्रकर्ष इति तमबेव भवति । अस्माकं च देवदत्तस्य च देवदत्तोऽभिरूपतरः । अत्रास्माकमित्येकस्यैव ‘अविशेषणे द्वौ चास्मदः' (२-२१२२) इति बहुवद्भावः। परुद्भवान्पटुरासीत् पटुतर ऐषयः । अत्रकस्यापि पर्यायार्पिणया द्वित्वमिति द्वयोरेव प्रकर्षः । विभज्ये, सांकाश्यकेभ्यः पाटलिपुत्रका आढयतराः अभिरूपतराः सुकुमारतराः, सांकाश्यकेभ्यः पाटलिपुत्रकेभ्यश्च माथुरा आढथतराः अभिरूपतराः सुकुमारतराः, सांकाश्यकादिषु पाटलिपुत्रकादीनामप्रवेशात विभागः, विभज्यस्य च विशेषणमप्याढथाद्यर्थः प्रकृष्टं विभज्यं भवति ततः प्रत्ययः । द्वयोविभज्ये चेति किम् ? गवां कृष्णा संपन्नक्षीरतमा, सांकाश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रका आढघतमा इत्यत्र राश्यपेक्षया द्वित्वेऽपि शब्देन बहुत्वोपादानात्तरप् न भवति । विभज्यग्रहणमद्वित्वार्थम् । प्रकष्टे' इत्येव, अयमनयोः पटुः, सांकाश्यकेभ्यः पाटलिपुत्रका आढघाः । पकारः पूवद्धावार्थः। शुक्लतरा शाटी ॥६॥ ... न्या० स० द्वयोः०-तद्गुणयोरिति स विवक्षितः समानो गुणो ययोरिति विग्रहः । अभेदैकत्वसंख्येति न विद्यते भेदो यस्याः सा अभेदा, सा चासावेकत्वसंख्या च, यथौषधिरसाः सर्वे मधुन्याहितशक्तयः, अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः, चैत्रेण चैत्राभ्यां चैत्रैर्वा भूयत इत्यत्र या संख्या सा अभेदैकत्वसंख्येति । पर्यायार्पणयेति पर्यायेषु पदुपटुतरादिषु अर्थस्य विशेषस्य चत्रादेरर्पणा ढौकनम् । गवां कृष्णेति अत्र यथा द्वयोरर्थयोर्मध्ये प्रकृष्टत्वं नास्ति तथा विभज्योऽपि नास्ति, स हि भेदरूपमापन्नानां भवति, अत्र तु गोत्वेन सर्वा अपि कृष्णा गावोऽभिन्नाः। सांकाश्यकानां पाटलिपुत्रकाणां चेति प्रकर्षद्वारेण विभज्यद्वारेणापि न भवति, षष्ठ्यन्तपदाभ्यां समुदायस्याभिन्नस्यैव प्रतिपादनात् , न त्यत्राप्यपायप्रतिपादिका पञ्चम्यस्ति, अपि तु चकारेणाविभागः प्रतीयते । ननु द्वयोरित्युक्तेऽपि अत्र न भविष्यति किं विभज्यग्रहणेन ? स्याह-विभज्यग्रहणमित्यादि विभज्ये इत्यसति द्वयोरेव प्रक्रष्टे स्यात. ततउचामगति हि द्वित्वे विभज्ये यथा स्यादित्येवमर्थम् । क्वचित् स्वार्थे ॥ ७. ३. ७ ॥ क्वचित् स्वार्थेऽपि तरप् प्रत्ययो पवति । प्रकृष्ट सिद्ध एव । अभिन्नमेवाभिन्नतरकम्, उपपन्नमेवोपपन्नतरकम्, उच्चैरेवोच्चस्तराम् । कचिदग्रहणं शिष्टप्रयोगानुसरणार्थम् ॥७॥ कित्यायव्ययादसत्त्वे तयोरन्तस्याम् ॥ ७. ३. ८॥ .. किंशब्दात् त्याद्यन्तात् एकारान्तादव्ययेभ्यश्च परयोस्तमप्तरपोरन्तस्या
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy