SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३०४ ] बृहद्वृत्ति-लघुन्याससंवलिते [ पाद. २ ० ५-६ ] च तन्निमित्तः प्रकर्षोऽपि नास्ति । कथं तहि शुक्लकृष्णयोः कृष्णो भास्वरतर इति । भास्वरत्वमेकजातीयम् तदपेक्षो भविष्यति । कथमन्धानां काणतमः, अन्धशब्दस्य काणपर्यायत्वात्काणशब्दस्य चान्धपर्यायत्वाददोषः । कथमहिंसकः श्रेयान् पापीयान् प्राणिनां हन्तेत्यत्र तरवर्ये ईयस् । नैतयोः परस्परं स्पर्धा, कि तर्हि अन्यापेक्षा, पकारः पुंवद्भावार्थः । शुक्लतमा शाटी ॥५॥ न्या० स० प्रकृ०-सुसंहनन इति सुसंबद्ध इति समांसमामिति अत्र. 'कालाध्वभाव' २-२-२३ इत्याघारस्य कर्मत्वे द्वितीयान्तस्य वीप्सायां द्वित्वम् । स्त्रीवत्सा चेति स्त्री वत्सा यस्याः सा तथा, सवत्सेत्युच्यमाने सह वत्सेन वत्सया या वर्तते इति संशयः स्यात् तन्निरासाय स्त्रीवत्सेत्युक्तम् । द्रव्यान्तरेति देवदत्तरूपात् द्रव्यादन्यद्रव्यं वस्त्रादि तत्र समवायी यो गुणः सूक्ष्मत्वादिः तेन । तद्वत इति प्रकृष्टगणवद द्रव्यवतश्चैत्रादेः परमार्थवृत्त्याऽस्यैव प्रकर्ष इत्यर्थः । ___ कुरूणामिति कुरोरपत्यानि 'दुनादि' ६-१-११८ इति व्यः, 'बहुवखियाम्' ६-१-१२४ इति तस्य लुप् । तरबन्तात्त्वित्यादि द्वयोः शुक्लतरयोर्मध्ये प्रकृष्टः शुक्लतर इति विग्रहें सतीति ज्ञेयम् । तथेति अनभिधानादित्यर्थः । बह्वाहयकतम इति प्रयोगे बहुव्रीहिज्ञापनाय कच् दर्शित । केचित्त्वित्यादि तन्मते सूक्ष्मतमवस्त्र इति प्रयोगो न भवति । कथमिति यदि बहूनां प्रकर्षोऽयं विधिस्तर्हि प्रधानतमोऽयं ग्राम इत्यत्र ग्रामपुरुषयोद्धयोः प्रकर्षे न प्राप्नोतीति कथमर्थः उत्तरं तु सुगममेव । महान् हिमवानिति अत्र सर्वपापेक्षया हिमवतो महत्त्वात् महच्छब्दात्तरप प्राप्नोति तर्युत्तरसूत्रेऽयं विचारो युक्तस्तरप उत्तरेण विधानात् १ सत्यं, प्रकर्षस्यात्र प्रस्तुतत्वात्तद्विचारप्रस्तावे उक्त इति न दोषः, विषमगुणयोः स्पर्धाया अभावात् प्रकर्षाभावे तमा न प्राप्नोतोत्याह-कथमन्धानामिति, कथमहिंसक इत्यादि द्वयोर्वाक्ययोः पृथक्प्राप्तयोः श्रेयः पापीयसोविषमगुणयोः परस्परापेक्षया प्रकर्ष प्रतिपद्यमान परः प्राह कथमित्यादि। अन्यापेक्षेति अन्यमहिंसकान्तरसपेशी 'शीलिकामि' ५-१-६३ इति णः । द्वयोर्विभज्ये च तरम् ॥ ७. २. ६ ॥ द्वयोस्तद्भणयोरर्थयोर्मध्ये यः प्रकृष्टस्तस्मिन् विभज्ये च विभक्तव्ये च प्रकृष्टेऽर्थे वर्तमानान्नाम्नस्तरप् प्रत्ययो भवति, तमपोऽपवादः । द्वाविमौ पटू अयमनयोः प्रकृष्टः पटुः पटुतरः, एवं सुकुमारतरः। पाचकतरः, गोतरो यः शकटं वहति सीरं च, गोतरा या समांसमां बिजायते स्त्रीवत्सा च । दन्ताश्च औष्ठौ च दन्तौष्ठम् दन्तौष्ठस्य, दन्ताः स्निग्धतराः । पाणी च पादौ च पाणिपादम्, पाणिपादस्य पाणी सुकुमारतरौ। अत्र यद्यपि विग्रहे बहत्वसंख्या प्रतीयते तथापि समाहारेऽवयवो स्वार्थमा दन्तत्वादिलक्षणम
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy