________________
३०६ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. ३ ० ९ ] मित्ययमादेशो भवति असत्त्वे न चेती सत्वे द्रव्ये इदंतदितिपरामर्शयोग्ये प्रकृष्टे वर्तेते । इदमनयोरतिशयेन किं पचति किंतरां पचति, इदमेषामतिशयेन किं पचति किंतमां पचति त्यादि, द्वाविमौ पचतः अयमनयोरतिशयेन पचति पचतितराम् , सर्वे इमे पचन्ति, अयमेषां प्रकृष्टं पचति पचतितमाम् , अस्मादेव वचनात् त्याद्यन्तादपि व्यर्थप्रकर्षे तरप् वह्वर्थप्रकर्षे तमप् भवति । पूर्वाहणेतरां भुङ्क्ते । पूर्वाह्णतमाम्, भुङ्क्ते । अपराहणेतराम् । अपराहणेतमाम् । प्राहेतराम् प्राहणेतमाम् प्रगेतराम्, प्रगतमाम्, अग्रेतराम् , अग्रेतमाम् । एग्रहणसामर्थ्यात् काले सत्वेऽप्याम् भवति नान्यस्मिन्नेदन्ताभावात् । अंग्रेशब्दोऽपि । कालवाची । अथवा विभक्त्यर्थो न द्रव्यम् । तत्प्रकर्षेऽत्र तरप्तमपी। शोभनो हेशब्दो यस्य स सुहेतर इत्यत्रानभिधानान्न भवति । क्रियाशब्देभ्यश्च, जयतीति विचि जेः जेतर इत्यादि, अव्यय, नितराम् , सुतराम्, अतितराम अतित. माम् , अतीवतराम्, नतराम्, उच्चस्तराम् । उच्चस्तमाम् ।
कित्याचेव्ययादिति किम् ? शीघ्रतरं गच्छति । असत्व इति किम् ? किंतरं दारु । उच्चस्तरः उच्चस्तमौ वृक्षः, उत्तरः, उत्तमः ।८।
न्या० स० कित्यावे.-अस्मादेवेति नामप्रस्तावात् 'त्यादेश्च प्रशस्ते रूप' ७-३-१० इति वचनाच नाम्न एव प्राप्नुत इति प्रश्नाशयः। ____ अथवेति यद्यपि पर्वाहोपराह इति कालः सत्वमत्र नामार्थः तथापि विभक्त्यर्थो याऽधिकरणशक्तिर्न सा आधेयपरतन्त्रा इति तस्या असत्त्वात्तत्र प्रत्यय इति । गुणाङ्गादेष्टेयसू ॥ ७. ३. ९ ॥
तयोरिति सप्तम्या विपरिणम्यते, गुणोऽङ्ग प्रवृत्तिनिमित्तं यस्य स गुणाङ्गः। यः शब्दो गुणमभिधाय द्रव्ये वर्तते । तस्मात्तयोस्तमप्तरपोविषये यथासंख्यमिष्ठ ईयसु इत्येतौ प्रत्ययो वा भवतः। पक्षे यथाप्राप्तं तमप्तरपो च । तमबर्थे इष्ठः । अयमेषामतिशयेन पटुः पटिष्ठः, पटुतमः, पटिष्ठी, पटुतमो, पटिष्ठाः, पटुतमाः, एवं लधिष्ठः, लघुतमः, गरिष्ठः गुरुतमः, म्रदिष्ठः, मृदुतमः तरबर्थे ईयसुः, अयमनयोरतिशयेन पटुः पटीयान्, पटुतरः, गरीयान्, गुरुतरः, लघीयान्, लघुतरः, प्रदीयान् , मृदुतरः, परुद्भवान् पटुरासीत् पटीयानैषमः, पटुतरः, माथुरेभ्यः पाटलिपुत्रकाः पटीयांसः पटुतराः। गुणग्रहणं किम् ? गोतमः, गोतरः, पाचकतमः, पाचकतरः, दन्तोष्ठस्य दन्ताः स्निग्धतराः, परुद्भवान् , विद्वानासीत् ऐषमो विद्वत्तर इति । अत्र जाति. क्रियाङ्गत्वान्न भवति ।