SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २९८ ] बृहद्वृत्ति - लघुन्याससंवलिते [ पाद. २ सू. १५६-१५९ ] यावदेव यावद्द्द्वयसम्, यावन्मात्रम्, तावदेव तावद्द्द्वयसम्, तावन्मात्रम्, एतावदेव एतावद्वयसम्, एतावन्मात्रम्, कियद्द्द्वयसम्, कियन्मात्रम् । प्रायोग्रहणं प्रयोगानुसरणार्थम् । १५५ । न्या० स० प्रायो० - यावद्द्द्वय समिति स्त्रियां यावतीद्वयसी, सामान्यविवक्षायां प्रत्यये पश्चात् स्त्रीत्वे यावद्वयसीत्यपि । वर्णाव्ययात्स्वरूपे कारः ।। ७. २. १५६ ।। वर्णेभ्योऽव्ययेभ्यश्च स्वरूपार्थवृत्तिभ्यः स्वार्थे कारः प्रत्ययो भवति । अकारः, इकारः, ककारः । खकारः । ककारादिष्वकार उच्चारणार्थः । अव्यय - ओंकारः, स्वाहाकारः, स्वधाकारः, वषट्कारः, हन्तकारः, नमस्कारः, चकारः, इतिकारः, एवकार:, हुंकार:, पूत्कारः, सीत्कारः, सूत्कारः । यथा हुंकृतिः, प्रकृतिः, सूत्कृतम्, सीत्कृतमिति भवन्ति तथा कारशब्देन घञन्तेन समासे ओंकारादयो भविष्यन्ति ? सत्यम्, किंतु ओंकारमुच्चारयति वषट्कारमभिधत्ते हुकारं करोतीत्यादि न सिध्यति । स्वरूप इति किम् ? अ: विष्णुः, इः कामः कः ब्रह्मा, खम् आकाशम्, ओं ब्रह्म, वर्षाडिन्द्राय, स्वाहाग्नये, स्वधा पितृभ्य इत्यर्थपरतायां न भवति । प्रायोऽनुवृत्तेरन्यत्रापि भवति । मन एव मनस्कारः, अहमेवाहंकारः । १५६। न्या० स० वर्णा० - नमस्कार इति कस्कादित्वात् सः न तु ' प्रत्यये २-३-६ इत्यनेन तत्रानव्ययस्येत्यधिकारात् । ओकारमुच्चारयतीति यद्यत्र कृ इत्यस्य कार इति निष्पद्यते तदा ओमिति करणस्य किमु - चारणं भवतीति न संगच्छते । मनस्कार इति मनस् शब्दः स्वरादित्वात् अव्ययश्चित्ताभोगे वर्त्तते, कस्कादित्वात् सः । रादेकः ॥ ७. २. १५७ ॥ रशब्दादेफः प्रत्ययो वा भवति । रेफः, प्रायोवचनाद्रकार इत्यपि । १५७ | नामरूपभागाद्धेयः ॥ ७- २. १५८ ॥ नामन्, रूप, भाग इत्येतेभ्यः स्वार्थे धेयः प्रत्ययो वा भवति । नामैव नामधेयम्, रूपमेव रूपधेयम्, भाग एव भागधेयम् ।१५८ | मर्तादिभ्यो यः ॥ ७. २. १५९ ।। मर्त इत्येवमादिभ्यः स्वार्थे यः प्रत्ययो वा भवति । मर्त्यः, सूर एव सूर्य:, एवं क्षेम्य:, यविष्यः, भाग्यम्, अपराध्यम्, रव्यम्, लव्यम् । मर्तादयः प्रयोगगम्याः । १५९ ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy