________________
[ पाद. २. सू. १५२-१५५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२९७ ___ न्या० स० संख्यैः-एकैकश इति 'प्लुप्चादावेकस्य स्यादेः' ७-४-८१ इति द्विवचने आदिविभक्तेलुंछ । संख्यादिः पादादिभ्यो दानदण्डे चाकल लुक च ।। ७. २. १५२ ॥
संख्यायाः प्रकृत्याधवयवात्परे ये पादादयस्तदन्तानाम्नो दानदण्डे चकाराद्वीप्सायां च विषयेऽकल् प्रत्ययो भवति, तत्संनियोगे च प्रकृतेरन्तस्य लुग्भवति ।
द्वो द्वौ पादौ ददाति द्विपदिकां ददाति, त्रिपदिकां ददाति, द्वे शते व्यवसृजति, द्विशतिका व्यवसृजति । द्विमोदकिकाम् त्रिमोदकिकाम् त्यजति, दण्डे द्वौपदी दण्डितः द्विपदिकां दण्डितः, एवं त्रिपदिकाम् द्विशतिकाम् त्रिशतिकाम्, द्विमोदकिकाम्, त्रिमोदकिकाम्, वीप्सायां, द्वौ द्वौ पादौ भुक्ते द्विपदिका भुङ्क्ते, त्रिदिकाम्, द्विशतिकाम्, त्रिशतिकाम, द्विमोदकिकाम्, त्रिमोदकिकाम् । संख्यादेरिति किम् ? पादं ददाति, पादं दण्डितः, पादं पादं भुङ्क्त । पादादिभ्य इति किम् ? द्वौ द्वौ माषौ ददाति । दानदण्डे चेति किम् ? द्वौ पादौ भुक्ते । चकारो वीप्साया अनुकर्षणार्थः । लकारः स्त्रीत्वार्थः । लुग्वचनम् अनिमित्तलगर्थम, तेन पादः पद्भावो भवति । परिनिमित्तायां तु लुचि स्थानिवद्भावो न स्यात । पादादयः प्रयोगतोऽनुसर्तव्याः ।१५२।
न्या० स० संख्या०-अनिमित्तलगर्थमिति नन्वकलि 'अवर्णवर्णस्य' ७-४-६८ इति प्रकृत्यन्तस्य लुप् भविष्यति किमर्थ लुगवचनमित्याशङ्का । तीयाट्टीकण न विद्या चेत् ॥ ७. २. १५३ ॥
तीयमत्ययान्तात्स्वार्थे टीकण प्रत्ययो वा भवति, न चेत्तीयान्तस्य विद्या 'विषयो भवति ।
द्वितीयम् द्वैतीयीकम्, तृतीयं तार्तीयीकम् । टकारो ड्यर्थः । द्वैतीयीकी, ताीयीकी शाटी न विद्या चेदिति किम् ? द्वितीया विद्या, तृतीया विद्या, मुखतीयः पाश्वतीय इति तीयस्यानर्थकत्वान्न भवति ।१५३॥ - न्या० स० तीया-मुखतीय इत्यादि मुखे मुखतः आद्यादिभ्यस्तस् मुखतो भवः गहादिभ्य ईयः 'प्रायोऽव्ययस्य ' ७-४-६५ इत्यन्तलोपः, एवं पार्वतीयः। निष्फले तिलात् पिञ्जपेजौ ॥७. २. १५४ ॥
तिलशब्दान्निष्फलेर्थे वर्तमानात् पिञ्जपेज इत्येतो प्रत्ययो भवतः । निष्फलस्तिल: तिलपिजः, तिलपेजः ।१५४। प्रायोऽतोयसटमात्रट् ॥ ७. २. १५५॥ अनुप्रत्ययान्तात् स्वार्थे द्वयसट मात्रट् इत्येतो प्रत्ययो भवतः प्रायः ।