________________
[पा० १. सू० ११] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः
प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा,
विदुषां शब्दसिद्धय या सा वः पायाच्छरावती ॥१॥ एणोपचने भव एणीपचनीयः । गोनर्दीयः, भोजकटीयः, कोशवक्षीयः, गोमयह्रदीयाः, एकचक्रकः । क्रोडं नाम प्रागग्रामस्तत्र भवः क्रोडीयः, देवदत्तं नाम प्रागग्रामस्तस्य काश्यादिपाठात् णिकेकणौ, देवदत्तिका, देवदत्तिकी। पूर्वक देशग्रहणम् एवकारेण संबद्धमिति पुनरिह देशग्रहणम् । देश एवेति नियमनिवृत्त्यर्थं वचनम् ।। १०॥
न्या० स०-प्रारदेशे-प्राङ् चासो देशश्च प्राचां देश इति वा । पूर्वोत्तरेणेति-पूर्वावयवयोगात् पूर्व, उतगवयघयोगादन्तरालमुत्तरं, पूषं च तदुत्तरं च । ईशानतो नैऋतं गच्छति । गोमहदीये इति-वाहीकेषु बाधकः ‘कखोपान्य' ६-३-५९ इति ईयः, ननु प्राचीति क्रियता देशविकारे ' सति किं पूनर्देशग्रहणेन ! इत्याह-एवकारेण संबद्धमिति-तदनुवृत्तावेधकारोऽप्यनुवर्तेत; तन्निवृत्त्यर्थ पुनर्ग्रहणमित्यर्थः । ननु प्राचीति सूत्रकरणसामर्थ्यादेचकारहित एव देश इत्यनुचर्तिध्यते, यदि ह्येवकारसंबद्धं देश इत्यनुवतिष्यते तदा प्राचीत्येतदपि न कुर्यात्, पूर्वेण सामान्येन सिद्धत्वात् ?
सत्यं, प्राचीति कृते सूत्रसामर्थ्यात् प्राचि कालेऽपि वर्तमानस्य दुसंज्ञा स्यादित्यप्याशङ्का स्यादिति देशग्रहणं, पूर्वसूत्रे सामान्ये देशे दुसंज्ञा सामान्यमध्ये विशेषो बुडित एव, ततः किं वचनेन ! इत्याह-देश एवेति । वाद्यात् ॥ ६. १. ११॥
वा इति च आखादिति च द्वितयमधिकृतं वेदितव्यम्, तत्र वाधिकारादित ऊवं वक्ष्यमाणाः प्रत्यया विकल्प्यन्ते, तेन पक्षे यथाप्राप्तं वाक्यं समासश्च भवति । उपगोरपत्यम, उपग्वपत्यम् इति । उत्सर्गरूपस्तु तद्धितोऽपवादविषये 'पीलासाल्वामण्डूकाद्वा' (६-१-६८) इत्यादौ वाग्रहणान्न भवति । आद्यादित्यधिकारात्सूत्रे यदादौ निर्दिष्टं तस्मात्प्रत्ययो भवति नान्यस्मात्, तेन 'सास्य'-(६-२-९८) इत्यधिकारे देवतेत्यादौ सेति प्रकृतिरस्येति प्रत्ययार्थो व्यवस्थितो भवति । इन्द्रो देवतास्य ऐन्द्रम् हविः, ऐन्द्रो मन्त्रः ॥ ११॥
न्या. स० वाद्यात्-नन्वत्र यथा वक्ष्यमाणतद्धितप्रत्ययानां विकल्पनात् पक्षे वाक्यसमासौ दश्यते तथा कथमपवाद प्रत्ययानां विकल्पेन पक्षे नोत्सर्गप्रत्यय इत्याह उत्सर्येत्यादि ।
, व्यवस्थितो भवतीति-आद्यादिति विना तु अस्येति प्रकृतिर्देवतार्थे इत्यपि स्यात् ।