________________
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ९-१०] न्या० स०-वृद्धिः-स्वरेष्विति-स्वरौ च स्वराश्च एकशेषे, शालायां भवो जातो वा 'दोरीयः' ६-३-३२ । आम्बष्टय इति-आम्षष्ठानां राष्ट्रस्य राजा, आम्बष्ठस्य राज्ञोऽपत्यंवा, 'दुनादि' ६-१-११८ इति अयः । ऐतिकायनीय इति-इतिकस्यापत्यं वृद्धं नडाद्यायनण, तस्य छात्र इति कृते 'गोत्राददण्ड' ६-३-१६९ इत्यकम् न शिष्यवर्जनात, ततो 'दोरीयः' ६-३-३२ एवमौपगवीयः ।
अकारोऽस्तीति-स्वरेषु हि आदौ अकारः चात्रास्ति शालीया इत्यादिषु तु आदिस्वरोऽकारो नास्ति किन्तु द्वितीय आकार इति न स्यात् । एदोद्देश एवेयादौ ॥ ६. १, ९ ॥
देश एव वर्तमानस्य यस्य शब्दस्य स्वरेष्वादिः स्वर एकार ओकारो वा भवति स ईयादौ प्रत्यये विधातव्ये दुसंज्ञो भवति । सैपुरिका, सैपुरिकी, स्कौनगरिकी । सेपुरं स्कोनगरं च वाहीकग्रामौ । देश इति किम् ? दैववाचकं नन्द्यध्ययनम् । एवकारोऽन्यत्र वृत्तिव्यवच्छेदार्थः, तेन देशेऽन्यत्र च वर्तमानस्य न भवति । कोडं नामोदग्ग्रामस्तत्र भवः कौडः, देवदत्तं नाम वाहीकग्रामस्तत्र भवो देवदत्तः । क्रोडशब्दः स्वाऽपि वर्तते । देवदत्तशब्द: पुस्यपि क्रियाशब्दश्च । ईयादाविति किम् ? आयनिबादौ न भवति ॥९॥
न्या० स०-एदोद्देश०-ईयादाविति- ईयः स्वसुश्च' ६-१-८९ ‘जातेरीयः सामान्यवति' ६-३-१३९ इत्यादेरीयस्य न प्रहस्तेषु दुसंज्ञानिबन्धनकार्याभावात् ।
सैपुरिकेति-सिन्वन्तीति विच् गुणः सयां पुरं सेपुरं, तत्र भावा 'व्यादिभ्यो णिकेकणौ' ६-३-३४ इत्यधिकारे 'वाहीकेषु प्रामात् ' ६-३-३६ ।
देववाचकमिति-देवान वक्ति बाहुलकात् णकः, देववाचकेन कृतं प्रोक्तं वा कृते, तेन प्रोक्ते वा अण् , अवश्यं नन्दतीति 'णिन्चावश्यक' ५-४-३६ इति णिन् , नन्दिनोऽध्ययनं .. नन्दन्ति भव्यप्राणिनोऽनया नन्दी चासावध्ययनं च इति वा ।
आयनिबादाविति-उपचारात् सेपुरस्थः पुरुषोऽपि सेपुरस्तस्यापत्यमवृद्धादायनिञ् , न च वक्तव्यं देशे एव न वर्तते इति, मुख्याभिधेयापेक्षया देशे एव वर्त्तते इत्युक्तमन्यथा सर्वेऽपि शब्दा उपचारेण स्वार्थ त्यजन्त्येव । प्राग्देशे ॥ ६. १.१०॥
प्राग्देशे वर्तमानस्य यस्य शब्दस्य स्वरेष्वादिः स्वर एकार ओकारो वा भवति स ईयादी प्रत्यये विधातव्ये दुसंज्ञो भवति, कः पुनः प्राग्देशः यः शरावत्याः सरितः पूर्वोत्तरेण वहन्त्याः पूर्वतो दक्षिणतो वा भवति । यस्तु पश्चिमत उत्तरतो वा स उदक् । यदाहुः