SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः भवति, यूनः कुत्सायां पक्षे युवत्वं निवर्त्यते, तत्र वृद्धप्रत्ययेनाभिधानं भवति । गाग्यस्यापत्यं युवा कुत्सितो गार्ग्यः गाायणो वा जाल्मः । गुर्वायत्तो भूत्वा स्वतन्त्रो यः स एवमुच्यते, कुत्साया अन्यत्र गाायण एव । वृद्धस्य चर्चायां पक्षे युवत्वं प्राप्यते, तत्र युवप्रत्ययेनाभिधानं भवति । गर्गस्यापत्यं वृद्धचितं तत्रभवान् गाायणः गार्यो वा । अर्चाया अन्यत्र गार्ग्य एव । अस्त्रीत्येव ? गर्गस्यापत्यं पौत्रादि स्त्री गार्गी ।। ५॥ न्या० स०-युववृद्ध०-युवत्वं निवर्त्यत इति- वंश्यज्यायः' ६-१-३ इत्यनेन नित्यं प्राप्तम् । संज्ञा दुर्वा ॥६. १. ६ ॥. . या संज्ञा संव्यवहाराय हठान्नियुज्यते सा दुसंज्ञा वा भवति । देवदत्तीयाः, देवदत्ताः, सिद्धसेनीयाः, सैद्धसेनाः । द्रुप्रदेशाः 'दोरीयः' (६-३-३१) इत्यादयः ॥६॥ न्या० स०-संज्ञा दुर्वा-संज्ञायतेऽनया स्थादित्वात् कः, बाहुलकात् त्रीत्वं, संज्ञानं वा, 'उपसर्गादातः' ५-३-११० इत्यञ् । त्यदादिः ॥ ६. १.७॥ सर्वाद्यन्तर्गतास्त्यदादयो दुसंज्ञा भवन्ति । त्यदीयम्, तदीयम्, यदीयम, इदमीयम्, अदसीयम्, एतदीयम् एकीयम्, द्वीयम्, युष्मदीयम्, अस्मदीयम, किमीयम्, त्यादायनिः, यादायनिः ॥ ७ ॥ . न्या० स०-त्यदादिः-भवदन्यै!दाहृतः इत्यस्माभिरपि नोदाहृतः, प्रयोगस्तु भावतायनिः । वृद्धिर्यस्य स्वरेष्वादिः ॥ ६. १. ८॥ यस्य शब्दस्य स्वरेषु मध्ये आदिः स्वरो वृद्धिसंज्ञो भवति स शब्दो दुसंज्ञो भवति । आम्रगुप्तायनिः, शालगुप्तायनिः, आम्बष्ठयः, शालीयः, मालीयः, ऐतिकायनीयः, औपगवीयः । वृद्धिरिति किम् ? दत्तस्येमे दात्ताः, अत्र स्वरेष्वादिः अकारोस्तीति दुसंज्ञा स्यात्, शालीया इत्यादिषु तु न स्यादिति वृद्धिग्रहणम् । यस्येति संज्ञिनिर्देशार्थम् । अनेन हि स इत्याक्षिप्यते। स्वरेष्विति व्यञ्जनानपेक्षया बुद्धिसंनिकृष्टस्वरसंनिवेशापेक्षमादित्वं यथा विज्ञायेतेत्येवमर्थम्, तेन व्यञ्जनादेरपि दुसंज्ञा सिद्धा भवति । आदिरिति किम् ? सभासन्नयने भवः साभासंनयनः ॥८॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy