________________
बृहद्वृत्ति-लघुन्याससंवलिते गोत्रोत्तरपदाद्गोत्रादिवाजिह्वाकात्यहरितकात्यात् ॥ ६. १. १२ ॥
गोत्रमपत्यम्, जिह्वाकात्यहरितकात्यजिताद्गोत्रप्रत्ययान्तोत्तरपदात् यदगोत्रप्रत्ययान्तमुत्तरपदं तस्मादिव वक्ष्यमाणः प्रत्ययो भवति, यथेह ईयो भवतिचारायणोयाः, पाणिनीयाः, जैमिनीया: रौढीयाः तथा कम्बलचारायणीयाः, ओदनपाणिनीया, कडारजैमिनीयाः, घृतरौढीया इत्यादावपि भवति। यथा चेहाञ् भवति शाकलाः, काण्वाः, दाक्षाः, पान्नागाराः तथा हिशाकलाः, पैङ्गलकाण्वाः, कापिलदाक्षाः, क्षरपान्नागारा इत्यत्रापि भवति । अजिह्वाकात्यहरितकात्यादिति किम् ? यथेहेयो भवति कात्यस्य छात्रा: कातीयास्तदिह न भवति, जिह्वाचपल: कात्यो जिह्वाकात्यः, हरितभक्षः कात्यो हरितकात्य: तस्येमे छात्रा: जैह्वाकाताः हारिकाताः ॥ १२॥
न्या० स० गोत्रो०-परमश्चासौ गार्ग्यश्च पग्मगार्ग्यस्तस्यापत्यं पारमगाायण इति न भवति, शैषिकेऽर्थे सूत्रस्य प्रवृत्तत्वात् , शैषिकः कथं लभ्यते इति चेत् १ सत्यं, ईयादावित्यधकारे ईयस्यादिरीय आदिरस्येति च समासात् ।
पाणिनीया इति-पणनं पणः, 'पणेर्माने' ५-३-३२ (इति) अल् , पणोऽस्यास्तीति पणी, 'अतोऽनेकस्वरात् ' ७-२-६ (इति) इन्, पणिनोऽपत्यं वृद्धं, 'सोऽपत्ये ६-१-२८ (इति ) अण् पाणिनस्यापत्यं युवा, 'अत इञ्' ६-१-३१ पाणिनेरिमे च्छात्रा ईयविषये 'युनि लुप्' ६-१-१३७ इति इबो लुपि दोरीयः।
शाकला इति-शकलस्यापत्यं 'गर्गादेर्यञ्' ६-१-४२ तस्येमे 'शकलादेर्यम् । ६-३-२७ इत्यबि 'अवर्णेवर्णस्य' ७-४-६८ इत्यनेनालोपे तद्धितयस्वरे २-४-९२ इति यलुप । एवं काध्वाः। प्राग् जितादण् ॥ ६. १. १३ ॥
प्राग् जितशब्दसंकीर्तनात् पादत्रयं यावत् येऽर्था अपत्यादयस्तेष्वपवादविषयं परित्यज्याण् प्रत्ययो वा भवति । उपगोरपत्यमौपगवः, मञ्जिष्ठया रक्त वस्त्रं माजिष्ठम्, भिक्षाणां समूहो भैक्षम्, अश्मनो विकार आश्मः, सूघ्ने भवः स्रोघ्नः, णकारो वृद्धयर्थः । अधिकारः परिभाषा विधिर्वाऽयम. अधिकारपक्षे प्राजितादित्युत्तरार्थम् । अन्यथेकणित्यादिवदणित्येव सिद्धम ॥ १३ ॥ ___ न्या०-स.-प्राजि० भैक्षमिति औत्सर्गिकाणो बाधकस्य 'कवचि' ६-२-१४ इतीकणो बाधको भिक्षादेर । अधिकार इति ननु कोऽत्र परिभाषाधिकारयोर्भेदः ? उच्यते, परिभाषा