________________
[पाद. २. सू ९४-९९ ) श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२८१
न्या० स० क्वकु०-क्वभवानिति ‘त्रप् च' ७-२-९२ इत्यनेन सर्वविभक्तिद्वारेणापि त्रपायोगे क्वाद्यादेशः।
सप्तम्याः ॥ ७. २. ९४ ॥ ___ सप्तम्यन्तात् किमब्यादिसर्वाद्यवैपुल्यबहोस्त्रप् भवति । कस्मिन्कुत्र, सर्वत्र, तत्र बहुषु बहुत्र । पकारस्य पुवद्भावार्थत्वात् बह्वीषु बहुत्र ।९४। किंयत्तत्सर्वेकान्यात्काले दा ।। ७. २. ९५ ॥
कियत्तत्सर्व एक अन्य इत्येतेभ्यः सप्तम्यन्तेभ्यः काले वाच्ये दा प्रत्ययो भवति । कस्मिन् काले कदा, यदा, तदा, सर्वदा एकदा अन्यदा। काल इति किम् ? क्व देशे ।९५। . सदाधुनेदानींतदानीमेतहि ॥ ७. २. ९६ ॥
'सदा, अधुना, इदानीं, तदानीम्, एतहि, इत्येते शब्दाः काले वाच्ये निपात्यन्ते । सदेति सर्वशब्दाद्दा प्रत्ययः सभावश्चास्य । सर्वस्मिन् काले सदा, सर्वदेत्यपि पूर्वेण | अधुनेति इदमो धुना प्रत्ययोऽकारादेशश्च । अस्मिन्कालेऽधुना, इदानीमिति इदमो दानी प्रत्ययः इकारादेशश्च, मस्मिन्काले इदानीम्, तदानीमिति तदो दानीम् प्रत्ययः, तस्मिन् काले तदानीम्, एतौति इदमोहिः प्रत्ययः एतादेशश्च, अस्मिन्काले एतर्हि ।९६॥ सद्योऽद्यपरेद्यव्यह्नि ॥ ७. २. ९७ ॥
सद्यस् अद्य परेधवि इत्येतेऽह्नि काले निपात्यन्ते । सद्य इति समानशब्दात् सप्तम्यन्ताह्नि काले वर्तमानात् यस् प्रत्ययः समानस्य च सभावो निपात्यते । समानेऽह्नि, सद्यः, अद्य इति अद्येति, इदं शब्दात् द्यः प्रत्ययः अकारादेशश्चास्य, अस्मिनहनि अद्य । परेद्यवि इति परशब्दात एद्यवि प्रत्ययः, परस्मिन्नहनि परेद्यवि, सद्य इति केचित्कालमात्रे निपातयन्ति ।९७। पूर्वापराधरोत्तरान्यान्यतरेतरादेद्युम् ॥ ७. .२ ९८॥
पूर्व, अपर, अधर, उत्तर, अन्य, अन्यतर, इतर, इत्येतेभ्यः सप्तम्यन्तेभ्योऽह्नि काले वर्तमानेभ्य एधुस् प्रत्ययो भवति । पूर्वस्मिन्नहनि पूर्वेद्यः, अपरेयुः, अधरेयुः, उत्तरेयुः, अन्येद्युः, अन्यतरेयुः, इतरेयुः ।९८। उभयात् घुसूच ॥ ७. २. ९९ ॥
उभयशब्दादति काले द्यस् चकारादेास् च प्रत्ययो भवति । उभयस्मिन्नहनि उभयद्युः, उभयेयुः ।९९।