________________
२८० ]
बृहद्वृत्ति-लघुन्याससंवलिते पाद. २ सू० ९२-९३ ] सर्वादिपरिग्रहार्थः । तेन मतुशत्रन्तव्युदासः ।९१। - न्या० स० भवत्वा०-उकारोपादानात् मुख्यवृत्त्या उदनुबन्धस्य भवतुशब्दस्य सर्वादिपठितस्य औणादिकत्वात् अव्युत्पन्नस्य प्रहणं, न तु भशब्दात् मतौ भवतुशब्दस्य, अत्र प्रत्ययस्यैव उदित्त्वं शब्दस्य तूपचारेण, यद्वा श्रुतानुमितेति न्यायात् । त्रप् च ॥ ७. २, ९२ ॥
भवत्वायुष्मदीर्घायुर्देवानांप्रियः समानाधिकरणात् किमब्यादिसर्वांद्यवैपुल्यबहोः सर्वविभक्त्यन्तात् त्रप् प्रत्ययौ वा भवति । स भवान् तत्रभवान्, तो भवन्तौ तत्रभवन्तौ, ते भवन्तः तत्रभवन्तः, तं भवन्तम् तत्रभवन्तम्, तेन भवता तत्रभवता, तस्मै भवते तत्रभवते, तस्माद्भवतः तत्रभवतः, तस्य भवतः तत्रभवतः, तस्मिन् भवति तत्रभवति । एवमायुष्मद्दीर्घायुर्देवानांप्रिवरप्युदाहार्यम् । योगविभागश्चकारेण पुनस्तस्विधानार्थः । तेन सप्तम्यन्तादपि तस् भवति । ततोभवति, तत्रभवति, अन्यथा हि ततः 'सप्तम्या:' (७-२-९४) इति परत्वात्रवेव स्यात् । रूढिशब्दाश्ते ततोभवदादयः समुदायाः पूजावचना यथाकथंचित व्युत्पाद्यन्ते । अत एव पुनस्त्यदादिरनुप्रयुज्यते । स तत्रभवान, तं तत्रभवन्तम् । केचित्तु भवच्छन्दस्यामन्त्रणे सौ भो इत्यादेशं कुर्वन्ति तन्मले ततो भोः तत्रभोः इत्यत्रापि भवति । केचित्तु भवदाययोगेऽपि ऋप्तसाविच्छन्ति । क गमिष्यसि कं देशं गमिष्यसीत्यादि ।१२।।
न्या० स० त्रफ्य-अत एवेति यद्येते रूढिशब्दा न स्युरवयवार्थयोगेन प्रवर्तेरन् तदा स तत्र भवान् सं तत्रभवन्तमिति पुनस्तदः प्रयोगोऽनुपपन्नः स्यात् , प्रकृत्यैव तदर्थस्यावगतत्वात् , रूढिशब्दत्वे तु न तत्रावयवार्थोऽस्ति, किंतु समुदायोऽयं विशिष्टः पूजां गमयतीति तदर्थप्रतिपादनाय पुनस्तच्छब्दप्रयोग उपपद्यते । क कुत्रात्रेह ।। ७. २. ९३ ।। . .
क, कुत्र, अत्र, इह इत्येते शब्दावबन्ता निपात्यन्ते । क्वेति किमः कादेशः, त्रपश्चाकारः । कस्मिन् क्व, कुत्रेति किमः कु इत्यादेशः, कस्मिन कुत्र, अत्रेति एतदोऽकारादेशः । एतस्मिन् अत्र, एतकस्मिन् अत्र, इहेति इदम इकारादेशः अपश्च हादेशः। अस्मिन् इह, इमकस्मिन्निह । एषु सप्तम्याः' (७-२-९४) इति अप् । अप्मात्रे चैते आदेशा विधीयन्ते तेन भवदादियोगेऽपि भवन्ति । क्वभवान्, कुत्रभवान्, अत्रभवान्, इहभवान्, क्वायुष्मान् कुत्रायुष्मान्, अत्रायुष्मान्, इहायुष्मान्, क्वदीर्घायुः, कुत्रदीर्घायुः, अत्रदीर्घायुः इहदीर्घायुः इत्यादि ।९३।