________________
[ पाद २. सू. ९०-९१] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २७९ ड्यादिवर्जनान्न प्राप्नोतीति पृथगुपादानम् । व्यादिवर्जनं किम् ? द्वाभ्याम्, त्वत्, मत्, युष्मत, अस्मत्, भवतः । कथं द्वितः त्वत्तः मत्तः युष्मत्तः अस्मत्त इति । 'अहीयरुहोऽपादाने' (७-२-८८) इति भविष्यति । अनेन हि तविधाने ' आ द्वेरः' (२-१-४१) इत्यत्वं स्यात् । तसावप्यत्वमिच्छन्त्येके । बहोर्वैपुल्य प्रतिषेधः किम् । बहोः सूपात् । किमयादिसर्वाद्यवैपुल्यबहोरिति किम् । वृक्षाद्विना। किंसर्वादिवहोश्च तसुविषयेऽपि परत्वादयमेव तस् । यतः प्रति, ततः प्रति, यत आगच्छति, तल आगच्छति । निरनुबन्धप्रत्ययान्तरकरणमत्त्वार्थम् । पित्करणं पुवद्धावार्थम् । बह्वीभ्यो बहुतः, पञ्चम्यन्तमात्रादयं विधिः । सर्वतो हीयते, सर्वतो रोहति, सर्वतो हेतोः, सर्वतः पूर्वः ।८९।
न्या० स० किम-द्विरादिर्यस्य द्वयादिस्तत्तो नया योगः, सर्व आदिर्यस्य सर्वादिः, अव्यादिश्चासौ सर्वादिश्च अद्व्यादिसर्वादिः, अवैपुल्ये बहुः अवैपुल्यबहुः, किम् च अव्यादिसर्वादिश्च अवैपुल्यबहुश्च, तस्मात् तसृषिषयेऽपीति 'प्रतिना पञ्चम्याः' ७-२-८७ “अहीयरुहोपादाने' ७-२-८८ इति विहिवस्य । पञ्चम्यन्तमात्रादिति न त्वपादान एव विहितपञ्चम्यन्तात् । इतोऽतः कुतः ॥ ७. २. ९० ॥
इतस् अतस् कुतस् इत्येते शब्दा निपात्यन्ते । इत इति इदमस्तसि इः सर्वादेशो निपात्यते । अस्मादितः, इमकस्मादित:, अत इति एतदः अः सर्वादेशः । एतस्मादतः, एतकस्मादतः। कुत इति किमः कुरित्यादेशः, कस्मात्कुतः । इह पञ्चम्या इति नानुवर्तते । लक्षणान्तरेण तसि तसौ वा सिद्धे आदेशमा विधीयते । तेनोत्तरसूत्रेण तसि इतोभवान् अतोभवान् आद्यादितसौ इत आस्यतामिति भवति १९०।
भवत्वायुष्मदीर्घायुर्देवानांप्रियैकार्थात् ॥ ७. २. ९१ ॥ ___ भवतु आयुष्मत्त् दीर्घायुस् देवानांप्रिय इत्येतैः समानाधिकरणात किमध्यादिसर्वाद्यवैपुल्यबहोः सर्वविभक्त्यन्तात्पित्तस् प्रत्ययो वा भवति । स भवान् ततोभवान्, तौ भवन्तौ ततोभवन्तौ, ते भवन्तः ततोभवन्तः तं भवन्तं ततोभवन्तम्, तेन भवता ततोभवता, तस्मै भवते ततोभवते, तस्माद्भवतः ततोभवतः, तस्य भवतः ततोभवतः । एवमयं भवान् इतोभवान् को भवान् कुतोभवान् इत्यायुदाहार्यम् । तथा स आयुष्मान ततआयुष्मान्, स दीर्घायुः ततोदीर्घायुः, स देवानांप्रियः ततोदेवानांप्रियः, अयमायुष्मान् इतआयुष्मान्, क आयुष्मान् कुतआयुष्मान, एवं दीर्घायुर्देवानांप्रियाभ्यामपि । भवस्वित्युकारः