________________
२७८ ।
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू० ८७-८९ ] स्वरतो वर्णतो वा । पापहीयमानेनेति किम् । चारित्रेण शुद्धः । अकर्तु रित्येव ? चैत्रेण हीयते । तृतीयाया इत्येव ? ग्रामे हीयते । क्षेपस्याविवक्षायां तत्त्वाख्याने यथा स्यादिति वचनम् ।८६॥
न्या० स० पाप० पापहीयमानाभ्यां योगे क्षेपस्यः प्रतीयमानत्वात् पूर्वेणैव सिध्यतीत्याहतत्वाख्याने इति ।
प्रतिना पञ्चम्याः ॥७. २.८७ ।। .. प्रतिना योमे या पञ्चमी विहिता तदन्तात्तसुः प्रत्ययो भवति वा । अभिमन्युरर्जुनात्प्रति अभिमन्युरर्जुनतः प्रति । अर्जुनस्य प्रतिनिधिरित्यर्थः । माषानस्मै तिलेभ्यः प्रति यच्छति तिलतः प्रति यच्छति । परम्या इति किम् ? वृक्षं प्रति विद्योतते ।८७. अहीयरुहोऽपादाने ॥ ७. २, ८८ ।।
अपादाने या पञ्चमी विहिता तदन्तातसुः प्रत्ययो भवति वा तच्चेदपादानं हीयम्होः संबन्धि न भवति । ग्रामादागच्छति ग्रामत. आगच्छति । चौराद्विभेति चौरतो बिभेति । अहीयरुह इहि किम् ? सार्थात् हीयते सार्थाद्धीनः, पर्वतादवरोहति । सार्थादिति कर्तुरपायेऽवधिविवक्षा, सार्थेन हीयते देवदत्तः इत्यर्थः । हीयते इति कर्मकर्तरीत्यन्ये । सात्स्वियमेव हीयते देवदत्त इत्यर्थः। हीयेति क्यान्तस्य जहानिर्देशो जिहीते इत्यस्य व्युवासार्थः, तेन तत्र प्रतिषेधो न भवति । भूमित उज्जिहोते। हागिति निर्देशेनैव हाङो नित्तिसिद्धौ हीयेति निर्देशो यत्रैव भावे कर्मणि कर्मकर्तरि च जहातेः प्रयोगस्तत्रैवापायविवक्षा नान्यत्रेत्येवमर्थम्, तेन सार्थाज्जहातीति न भवति । अपादान इति किम् । ऋते धर्मात्कुतः सुखम् । आ पाटलिपुत्रादृष्टो देवः ।८८
न्या० स० अही०-हीयत इति जहाति सार्थो देवदत्तं, स एवं विवक्षते, नाहं जहामि किंतु स्वयमेव हीयते ।
तेन सार्थाज्जहातीति न भवतीति सार्थो जहातीति वक्तव्ये । किमद्यादिसर्वाद्यवैपुल्यवहोः पित्तम् ॥ ७. २. ८९ ॥
पञ्चम्या इत्यनुक्तते, किंशब्दात् व्यादिजितेभ्यः सर्वादिभ्योऽवैपुल्यवाचिनो बहुशब्दाच्च पञ्चम्यन्तात्तस् प्रत्ययो भवति स च पित् । किम, कस्मात् कुतः, सर्वादि, सर्वतः, विश्वतः, यतः ततः बहु, बहुभ्यः बहुतः। किमः सर्वादित्वेऽपि