SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २८२ ] बृहद्वृत्ति - लघुन्याससंवलिते ऐषमः परुत्परारि वर्षे ॥ ७. २. १०० ॥ ऐषमस्, परुत्, परारि इत्येते वर्षे संवत्सरे काले निपात्यन्ते । ऐषमसिति इदम् शब्दात्सप्तम्यन्ताद्वर्षे वर्तमानात् समसिण प्रत्ययः इदमश्वकारादेशः । अस्मिन् संवत्सरे ऐषमः, इमकस्मिन् संवत्सरे ऐषमः । परुदिति पूर्वशब्दात् परशब्दाद्वा उत् प्रत्ययस्तस्य च पर इत्यादेशः । पूर्वस्मिन् परस्मिन् वा संवत्सरे परुत् । परारीति पूर्वतरशब्दात्परतरशब्दाद्वा आरिप्रत्ययः तस्य च परादेश: पूर्वतरे परतरे वा संवत्सरे परारि ॥१००॥ अनद्यतने र्हिः ।। ७. २. १०१॥ [ पाद. २ सू. १००-१०३ ] सप्तम्यन्तादनद्यतने काले वर्तमानात् यथासंभवं किमयादिसर्वाद्यवैपुल्य बहोः हिः प्रत्ययो भवति । कस्मिन्ननद्यतने काले कहि, यहि, तहि, अन्यहि । एतस्मिन् काले एतर्हि, एतदः साको नेष्यते । अमुष्मिन् काले अमुर्हि, इदमस्तु अनेन नेष्यते । बहुषु कालेषु बहुहि । कियत्तदेतदन्येभ्य एवेच्छन्त्यन्ये । काल इत्येव ? यस्मिन्ननद्यतने भोजने यत्र । अनद्यतन इति किम् ? यस्मिन् काले यदा, अनद्यतनेऽपि काले कालमात्र विवक्षायाम् दादिः प्रत्ययो भवति । कदा, यदा तदा तदानीम्, अन्यदा सप्तम्यर्थमात्रविवक्षायां त्रवपि भवति । अमुत्र काले । १०१ । न्या० स० अन० - अनेन नेष्यते इति किंतु 'सदाधुनेदानींतदानीम् ' ७-२-९६ इति सामान्यकाले भवति । बहुषु कालेध्विति बहुवचनेनावैपुल्यं दश्यते । प्रकारे था । ७. २. १०२ ॥ सप्तम्या इति निवृत्तम् । यथासंभवं विभक्तिः । सामान्यस्य भिद्यमानस्य भेदान्तरानुप्रवृत्तो भेदः प्रकारः तस्तिन्वर्तमानात् किमव्यादिसर्वाद्यवैपुल्यबहोः था प्रत्ययो भवति । सर्वेण प्रकारेण सर्वथा, यथा, तथा, उभयथा, अन्यथा, अपरथा, इतरथा । बहोस्तु परत्वाद्धा भवति । १०२ । न्या० स० प्रका० - बहोस्तु परत्वादिति 'संख्याया धा ७-२-१०४ इत्यनेन । कथमित्थम् ॥ ७. २. १०३ ॥ कथमित्थमिति प्रकारे निपात्यते कथमिति किमस्थापवादस्थम् निपात्यते । केन प्रकारेण कथम्, इत्थमिति इदम् एतदो वा थम् प्रत्यय इदादेशश्च अनेन एतेन वा प्रकारेण इत्थम् । १०३ ॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy