________________
पाद. २. सू. ७६-७७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२७५ भवति यत्तत्प्रथमान्तं तच्चेत्प्रकारो भवति । सामान्यस्य भिद्यमानस्य यो विशेषो विशेषान्त रानुप्रवृत्तः स प्रकारः । पटुः प्रकारोऽस्य पटुजातीयः, मदुजातीयः, यज्जातीयः, तज्जातीयः, नानाभूतः प्रकारोऽस्य नानाजातीयः, एवं प्रकारोऽस्य एवंजातीयः, अस्येति षष्ठ्यर्थे विधानात् प्रकारवति जातीयर विज्ञायते । ततः प्रकारमात्रभाविथाथमन्तादपि जातीयर् प्रत्ययो भवति । यथाजातीयः, तथाजातीयः, कथंजातीयः, इत्थं जातीयः । रित्करणं 'रिति' (३-२-५८) इत्यत्र विशेषणार्थम् ।७५।
न्या० स० प्रका०-सामान्यस्य पुरुषरूपस्य भिद्यमानस्य पटुजडादिभेदेन विशेष्यमाणस्य यो विशेषो पटुत्वादिरित्यर्थः।
विशेषान्तरानुप्रवृत्त इति स विशेषो द्विप्रकारो विशेषान्तरेष्वनुप्रवृत्तोऽनुस्युतः संबद्ध इति यावत् यथाऽयं पटुम॒दुः पण्डित इत्यादि, अयं हि पटुत्वलक्षणो विशेषो बहूनामापि तथा भावात् सभेदेषु विशेषान्तरेष्वनुप्रवृत्तो भवति, अपरश्चाननुप्रवृत्तो यस्य भेदा न सन्ति यथा अमूर्तसामान्यस्याकाशमिति भेदः, आकाशमिति थेकं द्रव्यं, न तस्य भेदाः सन्ति येन विशेषो विशेषान्तरेष्वनुप्रवृत्तः स्यात् , तत्र यो विशेषो विशेषान्तरेष्वनुप्रवृत्तः स प्रकार उच्यते ।
कोण्वादेः ॥ ७. २. ७६ ॥ ___ अणु इत्येवमादिभ्यस्तदस्य प्रकारे इत्यस्मिन् विषये कः प्रत्ययो भवति । जातीयरोऽपवादः । अणुः प्रकारोऽस्य अणुकः पटः, स्थूलकः पटः, अणुका माषाः, स्थूलका माषाः, माषकं हिरण्यम्, इषुका, गोलिका।
अणु. स्थूल, माष, इषु, इक्षु, वाद्य, तिल, काल, तिलकाल, पत्र मूल, पत्रमूल, पर्णमूल, कुमारीपुत्र, कुमारी, श्वशुर, मणि, बृहत्, चञ्चत्, चन्द्र, एरण्ड, पुण्ड इत्यण्वादिः ।७६। • जीर्णगोमूत्रावदातसुरायवकृष्णाच्छाल्याच्छादनसुराहिव्रीहितिले
।। ७. २.७७॥ जीर्ण, गोमूत्र, अवदात, सुरा, यव, कृष्ण इत्येतेभ्यो यथासंख्यं शालिआच्छादनसुराऽहिव्रीहितिलेषु वाच्येषु तदस्य प्रकार इत्यस्मिन्विषये कः प्रत्ययो भवति ।
जीर्णाच्छालिषु, जीर्णः प्रकार एषां जीर्णकाः शालयः । गोमूत्रादाच्छादने, गोमूत्रप्रकारं गोमूत्रकम् गोमूत्रवर्णमाच्छादनम् । अवदातात्सुरायाम्, अवदातप्रकारा अवदातिका सुरा, सुराया अहौ, सुराप्रकारः सुरावर्णः सुरकोऽहिः । यवात् व्रीहिषु, यवप्रकारा यवका व्रोहयः । कृष्णात्तिलेषु, कृष्णप्रकाराः कृष्णकास्तिलाः । शाल्यादिष्विति किम् ? जीर्णजातीयोऽन्य इत्यादि ।७७।