SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २७६ ] बृहद्वृत्ति-लघुन्याससंलिते [पाद. २ सू० ७८-८१ ] न्या. स. जीर्ण०-गोमूत्रप्रकारमिति अर्थकथनमिदं वाक्यं तु गोमूत्र प्रकारोऽस्येत्येवं मार्यम् , एवमवदातप्रकारेत्यादिष्वपि ज्ञेयम् । भूतपूर्व पचरट् ॥ ७. २. ७८ ॥ अतः परंप्रायः स्वार्थिकाः प्रत्ययाः। तत्रोपाधिः प्रकृते विज्ञायते स प्रत्ययस्य धोत्यो भवति । पूर्वं भूतो भूतपूर्वः, भूतपूर्वेऽर्थे वर्तमानान्नाम्नः पचरट् प्रत्ययो भवति स्वार्थे । भूतपूर्व आढय आढयचरः, दर्शनीयचरः । टकारो ड्यर्थः । पकारः पुंवद्भावार्थः, भूतपूर्वा आढया आढयाचरी, दर्शनीयचरी । भूतशब्दो वर्तमानेऽप्यस्ति पूर्वशब्दो दिगादावपीति अतिक्रान्तकाल. प्रतिपत्त्यर्थमुभयोरुपादानम्। प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तस्य भूतपूर्वत्वेऽयं प्रत्यय इतीह न भवति । अर्जुनो माहिष्मत्यां भूतपूर्व इति ।७८॥ न्या० स० भूतपूर्व-तत्रोपाधिरिति तत्र तेषु स्वार्थिकप्रत्ययेषु प्रकान्तेषु उपाधिर्विशेषणं भूतपूर्वादि प्रकृतेरेव सकाशादवसीयते केवलं प्रत्ययेन द्योत्यते न तूच्यते । - प्रत्यासत्तेरिति अत्र हि नार्जुनत्वस्यार्जुनशब्दाभिधेयस्य भूतपूर्वत्वम्, न हि अर्जुना माहिष्मत्यामर्जुनेन भूतपूर्व इत्यत्र विवक्षाऽपि तु राजत्वेनेत्यत्र न भवति । गोष्ठादीनञ् ॥ ७. २. ७९ ॥ गोष्ठशब्दादतपूर्वत्वे ईनञ् प्रत्ययो भवति । गोष्ठो भूतपूर्वो गौष्ठीनो. देशः ७९। षष्या रूप्यपचरट् ॥ ७. २. ८०॥ षष्ठयन्ताद्भूतपूर्वेऽर्थे रूप्यप्चरट् प्रत्ययौ भवतः । भूतपूर्व इतीह प्रत्ययार्थः । देवदत्तस्य भूतपूर्वो देवदत्तरूप्यो गौः, देवदत्तचरः, पचरटित्यत्र पकारटकारी पूवद्भावङीप्रत्ययाथौं । देवदत्तचरी।८०। न्या० स० षष्ठ्या०-प्रत्ययार्थ इति प्रकृत्यर्थस्तु पूर्वसूत्रेणैव सिद्धः सर्वविभक्त्यन्तत्वात् । देवदत्तचरीति देवदत्ताया भूतपूर्वा, असंज्ञाशब्दोऽयमन्यथा ‘तद्धिताक' ३-२-५४ इति निषेधः स्यात् । व्याश्रये तसुः ॥ ७. २. ८१॥ __नानापक्षाश्रयो व्याश्रयः, षष्ठयन्ताव्याश्रये गम्यमाने तसुः प्रत्ययो भवति । उकारोऽधण्तस्वाद्याशसः (१-१-३२) इत्यत्र विशेषणार्थः । देवा अर्जुनतोऽभवन, आदित्यः कर्णतोऽभवत् । अर्जुनकर्णयोर्विवदमानयोरर्जुनस्य पक्षे देवाः कर्णस्य पक्षे आदित्योऽभवदित्यर्थः । यत्तोऽभवत् यस्य पक्षे इत्यर्थः । तत्तोऽभवत् तस्य पक्षे इत्यर्थः । एवं त्वत्तोऽभवत्, मतोऽभवत् । व्याश्रय इति किम् ? वृक्षस्य शाखा ।८१।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy