________________
२७४
बृहदृत्ति-लघुन्याससंवलिते पा० २. सू० ७२-७५ ] करणशब्दाः नात्र विभक्तिरिति लुप् न भवति । अत एव प्रथमान्ततापि न विरुयते । सूक्तसाम्नी ग्रन्थविशेषौ ।७१।।
न्या० स० सूक्त०-अत एव प्रथमान्ततापीति यत एवामी अखण्डा अनुकरणशब्दा अत एव तेनैवानुकार्येणार्थनार्थवत्त्वान्नामत्वे सति प्रथमान्तताप्यविरुद्धैवेत्यर्थः ।
लुब वाध्यायानुवाके ॥ ७. २. ७२ ॥ __ अध्यायेऽनुवाके चाभिधेये मत्वर्थेय ईयस्तस्य लुब् वा भवति । अत एव लुब्वचनादध्यायानुवाकयोरीयोऽनुमीयते । एतावपि ग्रन्थविशेषौ । गर्दभाण्डशब्दोऽस्मिन्नध्यायेऽनुवाके वास्तीति गर्दभाण्डः गर्दभाण्डीयोऽध्यायोऽनुवाको वा। एपं दीर्घजीवितिः, दीर्घजीवितीयः, पलितस्तम्भः, पलितस्तम्भीयः, पलितः, पलितीयः, स्तम्भः, स्तम्भीयः, उच्छिष्टः, उच्छिष्टीयः, द्रुमपुष्पः, द्रुमपुष्पीयः ॥७२॥
न्या० स० छब् वा अध्यायानुवाकयोरर्थान्तरत्वात् पूर्वेण न प्राप्नोतीत्याहअत एवेति। विमुक्तादेरण् ।। ७. २. ७३ ॥
विमुक्तादिभ्यो मत्वर्थेऽध्यायानुवाकयोरभिधेययोरण प्रत्ययो भवति । विमुक्तशब्दोऽस्मिन्नध्यायेऽनुवाके वास्ति वैमुक्तः । दैवासुरः ।।
विमुक्त, दैवासुर, रक्षोसुर, उपसद्, उपसद, परिसारक, वसु, मरुत्, सत्वत, सत्वन्तु, दहि, वयस्, हविर्धान, महित्री, सोमापूषन, इडा, इला, अग्नाविष्णू, उर्वशी, दशार्ण, वसुमन्तु, पत्नीवन्तु, वर्हवन्तु, (सु) वृत्रहन्, पतत्रिन्, सुपर्ण इति विमुक्तादिः ।७३।
न्या० स० विमु०-सोमापूषन्निति अत्र 'वेदसहश्रुत' ३-२-४१ इति पूर्वपदस्य आत्वम्। घोषदादेरकः ॥ ७. २. ७४ ॥
घोषदित्येवमादिभ्यो मत्वर्थेऽध्यायानुवाकयोरभिधेययोरकः प्रत्ययो भवति । घोषच्छब्दोऽस्मिन्नस्ति घोषदकः, गोषदकः, इषेत्वकः ।
घोषद, गोषद्, इषेत्वा, मातरिश्वन्, देवस्यत्वा, पत्वा, देवीराप, कृष्णोस्य, खरेष्ठा, देविधीया, रक्षोहण, अञ्जन, प्रतूर्त, उशान, कृशानु, सहस्रशीर्षन्, वाचस्पति, स्वाहा, प्राण इति घोषदादिः ।७४। प्रकारे जातीयर् ॥ ७. २. ७५ ॥
तदस्येति वर्तते, तदिति प्रथमान्तादस्येति षष्ठ्यर्थे जातीयर् प्रत्ययो