________________
[पाद. २. सू. ६९-७१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२७३ इन्प्रत्ययान्तेन हस्त इत्यादिना प्रतिपादनासंभवान्नाद्रियते, यद्वा निर्विशेषं न सामान्यं भवेच्छशविषाणवदित्ति न्यायात् समुदायेन चेज्जातिरभिधीयते इत्युक्तेऽपि जातिमती व्यक्तिरुच्यत इति द्रष्टव्यं, निर्विशेषायास्तस्या जातेः असत्कल्पत्वात् ।
वर्णाद्रह्मचारिणि ॥७. २. ६९ ॥ __ वर्णशब्दान्मत्वर्थे इन् भवति ब्रह्मचारी वेदभिधेयो भवति । वर्णशब्दो ब्रह्मचर्यपर्यायः, वर्णो ब्रह्मचर्यमस्यास्ति बर्णी, ब्रह्मचारीत्यर्थः। अन्ये तु वर्णशब्दो ब्राह्मणादिवर्णवचनः । तत्र ब्रह्मचारीत्यनेन शूबव्यवच्छेदः क्रियते इति मन्यन्ते तेन त्रैवणिको वर्णीत्युच्यते । स हि विद्याग्रहणार्थमुपनीतो ब्रह्म चरति न शूद्र इति । ब्रह्मचारिणीति किम् ? वर्णवाम् ।६९।
न्या० स० वर्णात्-त्रैवर्णिक इति त्रिषु वर्णेषु भवः अध्यात्मादिभ्य इतीकण विधान सामर्थ्यात् 'द्विगोरनपत्य' ६-१-२४ इत्यनेन न लुप्, प्रयोजनम्' ६-४-११५ इति वेकण् प्रागजितीयत्वाभावात् 'द्विगोरनपत्ये' ६-१-२४ इत्यस्य लुपः प्रसङ्ग एवं नास्ति । विद्याग्रहणार्थमिति एवमुक्तेऽपि वेदविद्याग्रहणार्थमिति व्याख्येयम् ।। पुष्करादेर्देशे ॥ ७. २. ७० ॥
पुष्करादिभ्यो मत्वर्थे इन्नेव भवति देशेऽभिधेये । पुष्करिणी, पद्मिनी । देश इति किम् ? पुष्करवान हस्ती । · पुष्कर, पद्म, उत्पल, तमाल, कुमुद, कैरव, नल, कपिस्थ, बिस, मणाल, कर्दम, शालूक, विवर्ह, करीष, शिरीष, यवास, यबाष, यव, माष, हिरण्य, तट, तरङ्ग, कल्लोल इति पुष्करादिः । कथं कुमुवती सरसी कुमुद्वान् हृदः नड़वान् नड्वलमिति ? ' नडकुमुद'-(६-२-७४) इत्यादिना चातुरथिकेन मतुना भविष्यति १७०।
न्या० स०-पुष्क०-पुष्करिणी, पद्मिनी च देशविशेषौ, यवासशब्दोऽब्जादिगणे पुष्करादिगणे चाधीतस्तत्रौषधौ पूर्वसूत्रं प्रवर्तते देशविशेषे विदमिति विवेकः । कथमिति अत्र गणपाठात् कुमुदिनी इत्येव प्राप्नोतीत्याशङ्का ।
सूक्तसाम्नोरीयः ।। ७. २.७१ ॥
सूक्ते सामनि चाभिधेये मत्वर्थे ईयः प्रत्ययो भवति, मत्वादीनामपवादः । अच्छावाक् शब्दोऽत्र सूक्तेऽस्ति अच्छावाकीयम्, मैत्रावरुणीयम्, साम्नि, यज्ञायज्ञीयम्, अशनापिपासीयम्, वारतन्तवीयम् साम । अथास्यवामीयं सूक्त कयानश्चित्रीयं सामेत्यत्र 'ऐकायें' (३-२-८) इति विभक्तिलोपः कथं न भवति । उच्यते, अस्यवामादयः सूक्तसामस्थानामनुकार्याणामखण्डा एवानु